________________
સં. મધુસૂદન ઢાંકી
Nirgrantha
श्रीपुण्डरीकशिखरिस्तोत्रम् (श्रीशत्रुञ्जयचैत्यपरिपाटी)
(वसन्ततिलका) नमेन्द्रमण्डलमणिमयमौलिमाला
मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजं
शत्रुञ्जये गिरिपतिं प्रयत: स्तवीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति
पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो य:
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२॥ श्रीपादलिप्तपुरपावनपार्श्वनाथ
श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥३॥ श्रृंगं च यस्य भविका अधिरूढवन्तः
प्रासादपङ्क्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो ! लभन्ते
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥४|| लक्षत्रयीविरहिता द्रविणस्य कोटी
स्तिम्रो विविच्य किल वाग्भटमन्त्रीराजः। यस्मिन्युगादिजिनमन्दिरमुद्दधार'
श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।५।। कर्पूरपूरधवला किल यत्र द्रष्टा ।
__ मूर्तिः प्रभोर्जिनगृहे प्रथमप्रवेशे। सम्यग्दृशाममृतपारणमातनोति'
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥६।। श्रीमूलनायकजिन: प्रणतः स्तुतो वा
संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसा किल कर्मजालं
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org