________________
84 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I दूरापास्तमेव । न चात्रापि प्रतिबन्धग्राहि प्रमाणण्-यो योऽर्थस्तेन तेन सवाचकेन भवितव्यम्, घटादिदृष्टान्तमात्रात्तदसिद्धेः, क्षणिकालक्ष्यद्रव्यविवर्तानां संकेतग्रहणोपायाभावेनाभिलपितुमशक्यतया अनभिलाप्यत्वसिद्धेश्च क्षणभङ्गुरताप्रतिज्ञानं पुनरमीषामपि ऋजुसूत्रवनिरसितव्यम् । तथा प्रत्येकमतापेक्षयापि स्वाभिप्रेतं प्रतिष्ठापयन्तस्तद्विपरीतं शब्दार्थं तिरस्कुर्वाणा दुर्नयतामात्मसात्कुर्वन्ति । एतावद्धि प्रमाणप्रतिष्ठितम्, यदुत विधिमुखेन शब्दोऽर्थस्य वाचक इति, न पुनरयं नियमो यथायमस्यैव वाचको नान्यस्य, देशकालपुरुषसंकेतादिविचित्रया सर्वशब्दानामपरापरार्थाभिधायकत्वोपपत्तेः। अर्थानामप्यनन्तधर्मत्वादेवापरापरशब्दवाच्यत्वाविरोधात , तथैवाविगानेन व्यवहारदर्शनात , तदनिष्टौ तल्लोपप्रसङ्गात् । तस्मात सर्वध्वनयो योग्यतया सर्वार्थवाचकाः, देशक्षयोपशमाद्यपेक्षया तु क्वचित् कथंचित प्रतीति जनयन्ति । ततश्च क्वचिदनपेक्षितव्युत्पत्तिनिमित्ता रूढितः प्रवर्तन्ते, क्वचित - सामान्यव्युत्पत्तिसापेक्षाः, क्वचितत्कालवर्तिव्युत्पत्तिनिमित्तापेक्षयेति न तत्र प्रामाणिकेन नियतार्थाग्रहो विधेयः। अतोऽमी शब्दादयो यदा इतरेतराभिमतशब्दार्थोपेक्षया स्वाभिमतशब्दार्थं दर्शयन्ति, तदा नयाः, तस्यापि तत्र भावात् । परस्परबाधया प्रवर्त. मानाः पुनर्दुनयरूपतां भजन्ति, निरालम्बनत्वादिति । ननु च यद्येककधर्मसमर्थनपरायणाः शेषधर्मतिरस्कारकारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनमप्येकधर्मकथनद्वारेण प्रवर्तमानं सावधारणत्वाच्च शेषधर्मप्रतिक्षेपकारि अलीकमापद्यते, ततश्चानन्तधर्माध्यासितवस्तुसंदर्शकमेव वचनं यथावस्थितार्थ
एवेति । अस्मिश्च हेताविति । शब्दप्रतीतावर्थस्य प्रतीयमानत्वाद् इत्येवंरूपे। अलक्ष्यद्रव्यविवर्तानामिति । बालानामपि अतिप्रतीतत्वात् अलक्ष्ये इत्युक्तम्, यावता स्फुटमनुभूयमाना अपि केचन वस्तूनां पर्याया अनभिलाप्या एव । यदुक्तम्--
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ सिद्धान्तरहस्यं चात्र
पन्नवणिज्जा भावा अणन्तभागो उ अभिलप्पाणं । पन्नवणिज्जाणं पुण अणन्तभागो सुयनिबद्धो ।
(विशे० भा०, १४१) [प्रज्ञापनीया भावा अनन्तभागश्चानभिलाप्यानाम् ।
प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥] देशकालेति । देशकालपुरुषेषु संकेत प्रादिर्येषां प्रस्तावादीनां ते तथा, तेषां विचित्रता, तया। यथा हि-कर्कटीशब्दो मालवकादौ फलविशेष रूढः, गुर्जरादौ तु योन्यामिति । एवं कालादावपि द्रष्टव्यम् । अविगानेनेति । विगानं वचनीयता विप्रतिपत्तिरिति यावत् । तनिष्टाविति । तस्य शब्दानामपरापरार्थाभिधायकत्वस्य, अर्थानां त्वपरापरशब्दाभिधेयत्वस्य । तल्लोपः व्यवहारलोपः। सावधारणत्वाच्चेति। "सर्वं वाक्यं सावधारणम्"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org