________________
83
NYAYAVATARAN वा । न तावदाद्यः पक्षः, सर्वप्रमाणानां बहिरन्तस्तथाविधवस्तुद्योतनपटिष्ठतया प्रसाधितत्वात् । नापि द्वितीयः, अप्रमाणस्याकिचित्करत्वात् । एतेन स्थूरतादूषणमपि प्रतिक्षिप्तम्, प्रतिभासहतत्वात , तदपह्नवे विरोधोद्भावे तस्य निर्मूलतया प्रलापमात्रत्वात् । यत्पुनर्वर्तमानप्रकाशरूपतया तत्संबन्धवस्तुग्राहित्वं सर्वप्रमाणानामुदग्राहि तदयुक्तम्, तेषामेकान्तेन वार्तमानिकत्वासिद्धेः, कथंचिदात्माव्यतिरेकित्वात, तस्य च कालत्रयव्यापकत्वात् , तद्रूपतया तेषामप्यवस्थानात , ततश्चात्मनोऽर्थग्रहणपरिणामरूपत्वात् । सर्वप्रमाणानां परिणामिन्येव वस्तुनि व्यापारो न क्षणिके। न चातीतानागतक्षणवर्तिवस्तुग्रहणेप्यनाद्यनन्तजन्मपरंपराग्रहणप्रसङ्गः, आवरण विच्छेदसापेक्षत्वात तस्यैव परमार्थतः संवेदना. विर्भावान्तरकारणत्वात , ग्राह्यादेबहिरङ्गत्वात । सामस्त्येन पुनरावरणविलये सति समस्तवस्तुविस्तारानाद्यनन्तक्षणपरंपराग्रहणप्रसङ्गो ना (तो)नाबाधाकारी, इष्टत्वात् । तदेकदेशक्षयोपशमे पुनस्तदनुसारिणी बोधप्रवृत्तिरिति कियत्कालं भाविनि स्थूरे वस्तुनि प्राकृतलोकज्ञानानि प्रवर्तन्ते न संपूर्णे। न च तान्यलीकानि, तद्ग्राह्यांशस्यापि वस्तुनि भावात तावतैव व्यवहारसिद्धेरिति। यच्चोक्तम्--क्षणिकतां गृह्णन्तोऽपि सदृशापरापरोत्पत्तिविप्रलब्धत्वाद् मन्दा नाध्यवस्यन्ति, मिथ्याविकल्पवशात स्थिरताव्यवहारं च प्रवर्तयन्ति, तदयुक्तम्, भवदाकृतेन सादृश्याभावात, तदभावे तदुत्पाद्याभिमतभ्रान्तेनिर्बीजतयोत्पत्तरसंभवात । तथा स्थिरतारोपोऽपि क्वचिद् गृहीतस्थिरत्वस्यैव युक्तो नान्यथा, यथा दृष्टविषधरस्य मन्दप्रकाशे रज्जुदर्शने विषधरारोपः, न च भवतां कदाचन स्थिरता प्रतीतिगोचरचारितामनुभवति, तत्कथं प्रतिक्षणमुदयापवर्गसंसर्गिणि सकले वस्तुनि प्रत्यक्षेणावलोकितेऽपि तदारोप इति तस्मात्तिरोहितक्षणविवर्तमलक्षितपरमाणवैविक्त्यं वस्तु सांव्यवहारिकप्रमाणोचरीक्रियते । तत्तिरस्कारद्वारेण अदृष्टक्षणक्षयिपरमाणुप्रतिष्ठापकोऽभिप्राय ऋजुसूत्रो दुर्नयसंज्ञामश्नुते, तदुपेक्षयव दद्दर्शकस्य नयत्वात् । इति ॥ ___तथा शब्दादयोऽपि सर्वथा शब्दाव्यतिरेकमर्थस्य समर्थयन्तो दुर्नयाः, तत्समर्थनार्थमुपन्यस्तस्य तत्प्रतीतौ प्रतीयमानत्वलक्षणस्य हेतोरनैकान्तिकत्वात । तथा हि-नायमेकान्तो यत्प्रतीतौ यत्प्रतीयते तत्ततोऽव्यतिरिक्तमेव, व्यतिरिक्तस्यापि पावकादेरन्यथानुपपन्नत्वलक्षणसंबन्धबलाद् धूमादिप्रतीतौ प्रतीयमानत्वात् । एवं शब्दोऽपि व्यतिरिक्तमप्यर्थं वाचकत्वात् प्रत्याययिष्यति, अव्यतिरेकस्य प्रत्यक्षादिबाधितत्वात, शब्दाद्विवेकेनैवानुभूयमानत्वात् , अस्मिश्च हेतावनैकान्तिके स्थिते सर्वार्थानां स्ववाचकत्वसाधनद्वारेण शब्दाव्यतिरेकसाधनमपि
उपान्त्येति । अन्तस्य समीपमुपान्तं तत्र भवमुपान्त्यम् दिगादिदेहाशाद् यः (सि० हे. ६-३-१२४) इति यः।
सर्वथेति । एवं वदन् इदमाह-कथंचित् शब्दादव्यतिरेकोऽर्यस्याभ्युपगम्यते एव जैनैः । अयं चार्थः अभिहारणं अभिहेयाउ होइ भिन्नं अभिन्नं च इत्यादिना प्रारदर्शित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org