________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી, જેને સત્ય પ્રકાશ
वर्ष :२० जिनहितम्रेः शिष्यो बभूव भूमीशवन्दितांघ्रियुगः । कल्याणराजनामोपाध्यायस्तीर्णशास्त्राब्धिः ॥ १२ ॥ तच्छिष्यप्रतिपक्षदुर्द्धरमहावादीभपञ्चाननो, नानानाटकहाटकामरगिरिः साहित्यरत्नाकरः । न्यायाम्भोजविकाशवासरमणिबौद्धेते जाग्रत्प्रभो, वेदान्तोपनिषन्निषण्णधिषणोऽलंकारचूडामणिः ॥ १३ ।। श्रीवीरशासनसरोरुहवासरेशः, सद्धर्मकर्मकुमुदाकरपूर्णिमेन्दुः । वाचस्पतिप्रतिभधीनरवेषवाणिर्चारित्रवर्द्धनमुनिर्विजयो जगत्याम् ।। १४ ॥
[ रघुवंशटोका पृ० ] (१) श्रावक परम्पराः
श्रीमालवंशहंसो डौडागोत्रे पवित्रगुणपात्रम् । समजनि जगलूश्रेष्ठी, विशिष्टकर्मा वरिष्ठयशाः ॥ १४ ॥ माल्लूश्रेष्ठी तस्य, प्रशस्यमूर्तिर्बभूव तनुजन्मा । पुत्रोऽमुष्य स भूधर इत्याख्यो दक्षजनमान्यः ॥ १५ ॥ जगसी(मी)धर इति तस्माजातः स्मरविग्रहः कलानिलयः । तस्यापि लखमसिंहस्तनयो विनयी नयाभिज्ञः ॥ १६ ॥ तेजपालस्ततो जज्ञे, सुतो मुख्याबणोपि च । पीप्पडो बाहडान्यूनधर्मः शर्मनिधिः सुधीः ॥ १७ ॥ अमुख्यमुख्यो दाक्षिण्यभाजनं तनुजो जयी । देवसिंह इति स्वान्तःवासिताऽईत्पदाम्बुजः ॥ १८ ॥ साधुः सालिगनामाऽभूत् तत्पुत्रः स चारित्रभूः । एतस्याङ्गसमुद्भूताश्चत्वारोऽपि जयन्त्यमी ॥ १९ ॥ आढूः साधुधियां भूमिभैरवो रिपुभैरवः । ततः सेहुण्डनामा च धर्मधामा मनोरमः ॥ २०॥
१. जिनप्रभसूरि व उनके गुरु श्रीमालवंशके थे। अतः श्रीमाल जाति पर जिनप्रभीय शाखाका बडा प्रभाव रहा है। फलतः झुंझनु, दिल्ही, जौनपुर आदिमें जहां श्रीमाल अधिक रहते थे, इस शाखावालोंका अधिक विहार हुआ। १७वीं सदीमें जिनरंगसूरि श्रीमालवंश में हुए, तबसे दिल्ही, लखनउ, झंझनु, जयपुरादि श्रीमालक्षेत्रोंमें उनका प्रभाव हो गया।
For Private And Personal Use Only