SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६] શ્રી. જેન સત્ય પ્રકાશ [वर्ष : १० गुरुपरम्परा-बृहद्गच्छे स्वच्छे गुणगणमणी रोहणगिरि गुरुः श्रीमान् शान्तिः समजनि धनोत्तानितयशाः । अवन्ध्यं सान्निध्यं यदभिलषितौ दैवतवरैः प्रचक्रे चक्रेशासुरभिमुखमुख्यैरहरहः ॥ २८ ॥ आसीद् गुणाकरगुरुर्गरिमातिमात्रपात्रं क्रमेण गुणधाम तदन्ववाये। अध्यक्षतामधिगतैरधिकं प्रसन्नैः सिद्धादिभिः सुरवरैर्भुवि पप्रथे यः ॥ २९ ॥ आसीत् ततः प्रवरसूरिवतसरत्नं तत्पट्टनिर्जरगिरीन्द्रविनिद्रचन्द्रः । वाग्भंगिचंगिमगुणाधरितामृतश्रीरत्नप्रभोऽतिधिषणो धिषणोदयेन ॥ ३० ॥ तस्य प्रशस्यचरितस्य जयत्यमायाव्यायामभाग् गुणसमुद्रगुरुविनेयः । जैनेन्द्रसप्तनयतत्त्वमयागमोक्तिश्रद्धालुताविदलिताखिलपापपंकः ॥ ३१ ॥ श्रीमद्गुणाकरगुरोरभवद् विनेयः सौजन्यधन्यमनसा धुरि माननीयः। उन्निद्रसान्द्रसुकृतैकरतिर्मुनीन्द्रो भद्रोन्नतिव्यतिकरो हरिभद्रनामा ॥ ३२ ॥ शधुंजये अनशन-अतुच्छवाच्छ (त्स)ल्यकृतस्वगच्छोच्छ्यस्य सोत्साहनहःसहस्य । शत्रुजयाद्रौ हरिभद्रनाम्नो मुनेः प्रपन्नानशनस्य तस्य ॥ ३३ ॥ सन्यस्तसर्वार्थकदम्बकस्य साम्यामृतप्लावितमानसस्य । निरंतरध्यानजिनाधिपस्य स्वर्वासिंसंवासमुपागतस्य ॥ ३४ ॥ श्रेयःश्रिये तेन नियोगिना न नाम्ना हरेः कन्यसनन्दनेन । नैपुण्यपुण्येन गुणानुरागप्रोज्जागरूकाशयभासुरेण ॥ ३५ ॥ कल्याणीभक्तिना धर्मप्रोन्नतिप्रवणात्मना । श्रीमद्गुणसमुद्राह्वगुरवे भृशगौरवात् ॥ ३६ ॥ प्रध्वस्तसर्वदुरितं विशदानुभावसंभारभासुरतरं स्फुरिताखिलथि । श्रीशांतिनाथचरितं सुकृतप्रतानसंपादकं सकलमंगलधाम दत्तम् ॥ ३७॥ युर्ग-शशाङ्ग-चतुः-क्षितिसम्मिते नृपतिविक्रमतः परिवत्सरे । तपसि मासि भृशं सकले विधावहनि पंचदशे गुरुसंगते ॥ ३८ ॥ अयमलेखि सुवर्णपरम्परा सकललोकविलोचनरोचनः । अवरजेन हरेः सुतयोः स्वयं प्रमदतालमदायि च पुस्तकः ॥ ३९ ॥ यावत् तरंगततिसंगतिशालिवेलाशैलोर्णवो वसुमतीतलमण्डनत्वम् । धत्ते बुधैरनुदिनं परिवाच्यमानस्तावत् सतां सदसि नंदतु पुस्तकोऽयम् ॥ ४०॥ [जुमा : अनुसंधान ४ : २०४ ] For Private And Personal Use Only
SR No.521713
Book TitleJain_Satyaprakash 1954 08
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1954
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy