SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ર૭૫ અંક ૧૦-૧૧ } બે સંઘવી ભાઈઓની પ્રશસ્તિ सोत्कर्ष शिखि-शम्भु-नेत्रविषय-क्ष्मा(१५३३)संख्यवर्षे सदाप्यन्नावारितदानमानविधिभिः श्रीसंघसम्माननैः । सुक्षेत्रार्थनिवेशनैर्जिनमतं प्रोद्भासयन्तौ च यौ श्रीशचुंजय-रेवतादिषु महायात्रोत्सर्वं चक्रतुः ॥ १५ ॥ तौ श्रीधर्मधुरन्धरौ विधुरतां संप्रापयन्तौ सदा सत्रागारविधानदीनजनताऽऽधारप्रदानः कलिम् । श्रीसाधर्मिकभक्तियुक्तिसुकृतासक्तिप्रसक्तौ निजं नाम दमावधिनैकपुण्यकरणैः संस्थापयन्तौ ध्रुवम् ॥१६॥ सम्यग्दर्शन्मोदकाञ्जनमनो नासदृशं मोदकांश्चक्राणौ प्रचूरांस्तथा गुरुतरान् सद्प्य टकोदहरान् । कुर्वाणौ प्रतिमाप्रतिष्ठितिपदप्रौढप्रवेशोत्सास्तीर्थोद्धारपरोपकारगुरुसत्कारप्रकारादिव ॥ १७ ॥ साधु परिधापयन्तौ गच्छमतुच्छं विशेपवेषगणैः । सममखिलमवनिमण्डलमपि यशसा वाससा सहसा ॥ १८ ॥ प्राप्तप्रौढितपोगणप्रगुणिताऽत्यौनत्यनित्यश्रिया श्रीसूरीश्वरसोमसुन्दरगुरुप्रष्ठाः प्रतिष्ठास्पदम् । सूरिश्रीमुनिसुन्दराहगणभृत् श्रीचन्द्रगच्छोर्मिभृचन्द्रश्रीजयचन्द्रसूरिगुरवस्तत्पट्टविद्योतनः (नाः) ॥१९॥ तत्पट्टे गुरुरत्नशेखरवरस्तेषां च पट्टेऽधुना लक्ष्मीसागरसूरयो विजयिनः सौभाग्यभाग्यान्विताः । श्रीमान् ( मत् ) सोमजयाह्वयाश्च गणभूत्कोटीषु कोटीरताभाजस्तत्परिवारसारमपरेऽनूचानपादा इह ॥ २० ॥ तेषां धर्मरसोर्मिवर्मितगिरः श्रुत्वा सकर्णावुभौ चित्कोशे द्रविणैर्जिनोक्तसमयांस्तैलेखयन्ताविमाम् । वर्षेऽलीलिषतां वसु-त्रि-शर-भू (१५३८) संख्ये प्रति प्रीतिदां श्रीसंघाधिपखीमसिंह-सहसासंज्ञौ [व] दान्याविह ॥ २१॥ एतांस्तु नव्यलिखितान् श्रीमत्सुरीन्द्रसोमजयगुरवः । शोधनविधिना ग्रन्थान् समान् समीचीनतां निन्युः॥२२॥ एतल्लेखनविषयोपक्रममसमं व्यधुर्धतालस्याः । चित्कोशसर्वचिन्ता विविधा विजयमन्दिरगणीन्द्राः ॥२३॥ For Private And Personal Use Only
SR No.521623
Book TitleJain_Satyaprakash 1946 07 08
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1946
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy