________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्य
મન
4519
वर्ष ९ : अंक ४-५-६ ] विक्रम विशेषांक [ क्रमांक १००-१-२ ॥ श्रीअवन्तिपार्श्वनाथस्तुतिपञ्चकम् ॥
रचयिता पूज्य मुनिमहाराज श्रीदक्षविजयजी [प. पू. आ. म. श्री. विजयलावण्यसूरीश्वर शिष्य ] हर्षादवन्तिसुकुमारसुतेन यस्य,
मूर्तिः प्रभावभवना भवनाशकारी । निर्माता निजपितुः स्मृतये सदा तं
वन्देऽवनीश्वरमवन्तमवन्तिपार्श्वम् ॥ १ ॥ स्तुत्या मुदा प्रकटनात् किल यस्य मूर्तेः, श्रीसिद्धसे नवरसूरि दिवाकरेण । श्रीविक्रमार्कनृपतिः प्रतिबोधितस्तं,
वन्देऽवनीश्वरमवन्तमवन्तिपार्श्वम् ॥ २ ॥ भक्तोपसर्गहरदक्ष सुयक्षपार्श्व,
दुष्टाष्टकर्मवनमाशनतीक्ष्णपार्श्वम् । स्याद्वादसुन्दर सुधर्मरथैकपार्श्व,
वन्देऽयमीश्वरमवन्तमबन्तिपार्श्वम् ॥ ३ ॥ अन ज्वलत्फणिमणेर्धर णेन्द्र भावं,
नेतारमाशु दयया हि दयानिधानम् । श्रीमालवावनितलैकललामरूपं,
वन्देऽवनीश्वरमवन्तमवन्तिपार्श्वम् ॥ ४ ॥
नखेन्द्रमौलिमणिभारप्रभालिनीरै
र्यत्पादपङ्कजयुग' स्मपितं नितान्तम् । स्मृत्या समीहितकरं जगदीश्वरस्तं,
वन्देऽवनीश्वरमवन्तमवन्तिपार्श्वम् ॥ ५ ॥
For Private And Personal Use Only