SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ] શ્રી જૈન સત્ય પ્રકાશ स्म । अस्मिन्नवावसरे तस्यैका गौर्गापालेन वने नीयमाना सायाढ़े गृहं प्रत्यागतवती दुग्धदोहाऽऽसीत् , तां निर्दुग्धां विलोक्य गोपालमाद्य तस्यैष चौर्य विज्ञाय तमताडयत् । तदा गोपालेनोक्तं स्वामिन न यत्र ममापराधमस्ति, यत इयं धेनुः स्वयमेव वने दुग्धं प्रस्रवति मद्वचनमिदं मिथ्यैव जानासि चेन्मया सह तत्र गत्वा दर्शयतु भवान । इत्याकर्ण्य सः श्रावक तदनु वनेऽगच्छत् ततो धावेव तौ तस्याः मार्ग गत्या स्वयं तत्रैकस्मिन्प्रदेश दुग्धं प्रसवंती गां विलोक्य जात विस्मयौ गृहमगमताम। ___ स च श्रावकः प्रभात गुरूणां समीपे गत्वा तत्कारणमपृच्छत् गुरु ध्यानेनैतविलोक्य तत्राहतीं कांचन प्रतिमा ज्ञात्वा तेन सह तस्मिन् वनप्रदेश समागत्य तां भूमिमुत्खातयामास । ततो गर्तादेका स्वकान्त्या तद्देशं द्योतयन्ती महती श्रीपार्श्वनाथदेवस्य प्रतिमा निःसृता । तां महताडम्बरेण रथे आरोप्य गृहमानीय गुरुणाज्ञप्तः स पारसस्तस्याः पूजनादिकं प्रतिदिनं कुरुते स्म। सत एकदा सा प्रतिमा तं श्रेष्टपुङ्गवं स्वप्न एवं जगाद । “ हे भक्त ! मम प्रासाद कारय "-श्रेष्ठी उवाच-स्वामिन् ! अहं तु नितरां दरिद्रः वित्ताभावात्कथं देव. गृहं भवेत् प्रतिमयोक्तं द्रव्यस्य चिन्ता न करणीया यतः मम पुरस्ता लोकेन प्रत्यर्पिता अक्षताः स्वर्णमया भविष्यन्ति तैश्च पुष्कलं द्रव्य तय गृहे स्वयमेवायास्यति, परमियं वार्ता कस्यापि न प्रकाश्या । इत्युक्त्वा देवोतिरोहितः ततः प्रभाते उत्थाय स देवगृहं कारयितुं मनसि दृढ विचार मकरोत् । तद्दिनत पत्र ये जना तत्रागत्य अक्षतान्यर्पयन्ति ते च स्वर्णमया भवन्ति स्म । अथ कियता कालेन पुष्कले सुवर्ण सति श्रेष्ठिना देवगृहनिर्माणं प्रारब्धं । तदा कियद्भिर्दिवसैविशालमंडपमण्डितं प्राकारवेष्टित तोरणपताकादिमण्डितं स्वर्णजटितस्तम्भविराजितं द्वारि स्थितमत्तवारणशोभितं पार्श्वयाः धर्मशालायुगलेन विराजितं कूपवापिकायुक्तं मनोहरमुद्यानशोभितमपरं स्वर्विमानमिव देवमन्दिरं जातं, तन्महावैभवकार्य विलोक्य लोकाः विस्मयं प्रपेदिरे, परं न कोपि किश्चित् मुखावदति । अथैकदा तस्य कनिष्टपुत्रेणातीयाग्रहात्पृष्टं, तात ! एता. वद्धनं त्वया कुतो लभ्यते १ श्रेष्ठिनोक्तं रे पुत्र ! त्वं बालकोऽसि अत इदृग्वि. धेन प्रश्नेन तव किं कार्यमस्ति, पुत्रस्तु तच्छुत्वा बालप्रभावाद्धटमवलम्ब्य भोजनादिकमपि त्यक्तवान् । अथ तदाग्रहं विलोक्य स पारससाधुः स्नेहवाशस्तं सर्वमेव स्वर्णप्राप्तिसाधनं प्रत्यवोचत् । ततः तदनन्तरं पूर्ववत् द्वितीयेति ते अक्षताः स्वर्णमया नाभवन् तेनावशिष्टं गृहमवशिष्टमेवासित् परं । श्रीदेवमूरिप्रभुपदपङ्कजप्रभाकरैः श्रीमुनिचन्द्रमूरिभिस्तत्रागत्य बिम्ब-चैत्यस्य वेदाभ्रने अक्षिति (१२०४) प्रमिते वर्षे तस्य गृहस्य प्रतिष्टा कारिता। तच्च फलवर्धिकानाम तीर्थ जातं, तस्य महिमा न केनापि शक्यते वक्तुं । यत्र च स्वयमेव भगवान् जिनः नृसिंहरूपेण तद्रक्षां करोति। तदाराधनविधिस्तु श्रीमन्जिन प्रभसूरिकृतकल्पाविज्ञेयः । यदा स महाप्रभुस्तुष्टो भवति तदा प्रदीपहस्तस्तम. न्दिरात बहिरागत्य दर्शनेन कृतार्थयति जनान् वरांश्च प्रयच्छति तत्र For Private And Personal Use Only
SR No.521569
Book TitleJain_Satyaprakash 1941 04 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages54
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy