________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१६
॥ ११ ॥
॥१४ ।।
॥ १६ ॥
શ્રી જૈન સત્ય પ્રકાશ खुख-दुःखात्मके स्पर्श समायाते समो यदा । भविष्यसि भवाभावी तदा ते परमं सुखम् मुक्त्वा क्रोधं विरोधं च सर्वसन्तापकारकम् । यदा शमसुधासितस्तदा ते परमं सुखम मृदुत्वेनैव मानानि यदा घूर्णीकरिष्यसि । मत्वा तृणमिवात्मानं तदा ते परभं सुखम् यदा मायामिमां मुक्त्वा परपञ्चकतां पराम् । विधास्यस्यार्जवं वर्य तदा ते परमं सुखम् यदा निरीहतानावा लोभाम्भोधिं तरिष्यसि ।। सन्तोषपोषपुष्टः सन् तदा ते परमं सुखम् कषायविषयाकान्तं भ्रमत् स्थान्तमनारतम् । यदाऽऽत्मारामविश्रान्तं तदा ते परम सुखम् यदा गर्वान्वितां व्यर्थी विमुच्य विकथां कथाम् । वचोगुप्त्याऽथ गुप्तोऽसि तदा ते परम सुखम अङ्गोपाङ्गानि डिम्भानां कूर्मवत् संवृतेन्द्रियः । यदा त्वं कायगुप्तोऽसि तदा ते परमं सुखम् निर्धास्यति धनं घोरं रागोरगमहाविषम् । यदा सदागमाभ्यासात् तदा ते परम सुखम यदा कृपाकृपाणेन द्वषं वर्ष विनाऽपि हि । हनिष्यसि सुखान्वेषी तदा ते परमं सुखम् यदा मोहमयीं नितां ध्रुवं विद्रावयिष्यति । अस्ततन्द्रः सदा भद्रस्तदा ते परमं सुखम् प्रमाद परिहत्याऽऽशु यदा सद्धर्मकर्मणि । समुघतोऽसि निश्शङ्कस्तदा ते परमं सुखम् यदा कामं प्रकामं तु निराकृत्य विवेकतः । शुद्धध्यानधनोऽसि त्वं तदा ते परभं सुखम् यदा मित्रेऽथवाऽमित्रे स्तुति-निन्दा विधातरि । समानं मानसं तत्र तदा ते परमं सुखम् यदा हर्ष विषादं च करिष्यसि कदापि न । सुरखे दुरवे समायाते तदा ते परमं सुखम् लाभालाभे सुखे दुःखे जीविते मरणे तथा । औदासीन्यं यदा ते स्यात् तदा ते परम सुखम्
॥ १८ ॥
॥१९॥
॥ २० ॥
॥.२१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ।।
॥ २६ ॥
For Private And Personal Use Only