________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જિનેન્દ્રપ્રતિમાની રચના
[४०५]
॥१८॥
॥२०॥
धर्मचक्रमिदं देवि धर्ममार्गप्रवर्तकम् । सत्वं नाम मृगस्सोऽयं मृगी च करुणा मता अष्टौ च दिग्गजा एते गजसिंहस्वरूपतः। आदित्याद्या ग्रहा पते नवैष पुरुषाः स्मृताः . यक्षोऽयं गोमुखो नाम आदिनाथस्य सेवकः। यक्षिणी रुचिराकारा नाम्ना चक्रेश्वरी मता इंद्रोद्रास्वयं भर्तुर्जाताश्चामरधारकाः।। पारिजातो वसंतश्च मालाधरतया स्थिती अन्येपि ऋतुराजा ये तेऽपि मालाधराः प्रभोः । भ्रष्टेद्रा गजमारूढाः कराग्रे कुंभधारिणः स्नानं कत्तं समायाताः सर्वसंतापनाशनम। कर्पूरकुंकुमादीनां धारयंतो जलं बहु यथा लक्ष्मीसमाकांतं याचमाना निजं पदम् । तथा मुक्तिपदं कांतमनंतसुखकारणम् हूहूतुंबरुनामानौ तौ वीणावंशवादकौं : । अनंतगुणसंघातं गायंतो जगतां प्रभोः बाचमेकोमपंचासद्भेदभिन्नमनेकधा। चतुर्विधा अमी देवा वादयंति स्वभक्तिः सोय देवो महादेवि दैत्यारिः शंखवादकः । नानारूपाणि बिभ्राण एकैकोऽपि सुरेश्वरः जगत्त्रयाधिपस्यस्य हेतुच्छत्रत्रयं प्रभोः । अभी च द्वादशादिल्या जाता भामंडल प्रभोः पृष्ठलग्ना अमी देवा याचंते मोक्षमुत्तमम् । एवं सर्वगुणोपेतः सर्वसिद्धिप्रदायकः एष एव महादेवि सर्वदेवनमस्कृतः। गोप्याद्गोप्यतरः श्रेष्ठो व्यक्ताव्यक्ततया स्थितः आदित्याद्या भ्रमत्येते यं नमस्कर्तुमुद्यताः । कालो दिवसरात्रिभ्यां यस्य सेवाविधायक वर्षाकालोष्णकालादिशीतकालादिवेषभृत् । यत्पूजार्थ कृता धात्रा आकरा मलयादयः . काश्मीरे कुंकुम देवि यत्पूजार्थ विनिर्मितम् । रोहणे सर्वरत्नानि यभूषणकृते व्यधात् रत्नाकरोपि रत्नानि यत्पूजार्थ च धारयेत् । तारकाः कुसुमायते भ्रमतो यस्य सर्वतः एवं सामर्थ्यमस्यैव नापरस्य प्रकीर्तितम् । अनेन सर्वकार्याणि सिध्यतीत्यवधारय
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥ २७॥
॥२९॥
For Private And Personal Use Only