________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजैनधर्म - विजयवैजयन्ती
प्रणेताः-मुनिमहाराज श्री वल्लभविजयजी कल्याणानां निदानं गुणगणविलसत्सत्यशौचाहिंसामीमांसायुक्तसूक्तस्मृतिधृतिनिवहप्रोधदास्तिक्यवादम् । संसाराम्भोधिपारप्रतरणतरणिप्रत्नलब्धोदयथि श्रेयस्कारि प्रजानां जयति जयजनुजैनधर्मकतस्वम् ॥ १ ॥ यत्तत्वं प्राप्य भूमौ नरवरनिवहाः स्वस्वसिद्धिं लभन्ते सेवन्ते तत्वजातप्रथमपृथुयशोज्ञानविज्ञानबीजम् । शोकव्यामोहमालाकुलितजनहृदालम्बनं लम्बनं यत् शश्वच्छान्तिप्रदं तजयति जयजनुजैनधर्मकतत्त्वम् ॥ २ ॥ संसारेऽस्मिन् विशालेऽमलमतिरचितैश्चित्रिते वस्तुसंधैस्त्रैगुण्ये पुण्यपापप्रथितपृथुपथे ज्ञानविज्ञानगम्ये । कान्तारे वहपायेऽपरिमितविभवे सर्वधर्मोपदेशे देशे देशेऽप्यशेषे जयति जयजनुजैनधर्मैकतत्वम् ॥ ३॥ विज्ञानानां निधानं खलबलमथनं पावनं पावनानां रागद्वेषादिशत्रून्मदकरिहरिणाध्यरक्षःकुलघ्नम् । सोपामं सत्यधर्मातिगहनसरितां सर्वधर्मप्रधानं हानं हिंसाशयानां जयति जयजनुजैनधर्मकतत्वम् ॥ ४ ॥ न क्रोधो नैव लोभो नहि विषयरति व मात्सर्यभावो नो. कामो यत्र धर्म प्रतिपलममलं सत्यशौचं चकास्ति । तद्विद्याबोधचक्षुः क्षपितकलिमलं सर्वसम्पत्प्रपन्नं विन्द्ववृन्दैकवेद्यं जयति जयजनुजैनधर्मैकतत्त्वम् ।। ५ ।। विश्रामस्थानमेकं भववनदहनज्वालजालाहतानां सदबोधिस्थानमेकं यमनियमनपोब्रह्मजिज्ञासुकानाम् । आदेशम्थानमेकं मुनिबरवचसा शर्मदं सज्जनानां भूमौ भूयस्तदेकं जयति जयजनुजैनधर्मकत्वम ॥ ६ ॥ किर्ति सर्वत्र दत्ते यदिह कृतिमतां काममर्थ च सूते धैर्य स्थैर्य सुधीनां विपदि विषयिणां यंत्र मत्मौख्यमास्ते । शेते यत्रैव धर्मः सकल इति सदा सभ्यशास्त्रे बुवाते. तत्क्षेमक्षोदलक्ष्यं जयति जयजनुजैनधर्मे कतत्वम् ॥ ७ ॥ सच्चित्सौख्यस्वरूपे प्रकटितविभवे भावभक्ताशुलभ्ये मायातीतेऽत्र यस्मिन् निरवधिरमला प्रीतिरास्ते सुधीनाम् । तत्कारुण्यप्रजातं भषजलधिगतस्थान्तंशान्त्येकसेतु कैवल्योपायकल्प नयति जयजनुजैनधर्मकतारबम ॥ ८ ॥
For Private And Personal Use Only