________________
શ્રી જૈન સત્ય પ્રકાશ
ક્રમાંક ૪૫
[ भासिs ]
[१५ ४ : २i
]
. श्रीहेमचन्द्राचार्य-अर्चना कर्ता-मुनिराज श्री हेमेन्द्रसागरजो
[शार्दूलविक्रीडितवृत्तम्] अज्ञानान्धमपाकृतं सुविषदज्ञानोष्णभेन क्षितौ, योगेनैव मनोमलः क्रमतया नीतः क्षयं क्षोभदः। आधिव्याधिविपद्धरं विरचितं शास्त्रं च येन प्रथु, सरिः श्रीप्रभुहेमचन्द्र उदितोऽपूर्वप्रभश्चन्द्रमा: ॥१॥ आचार्यप्रवर : स्वयोगनिपुणो योगैकमूर्ति : स्वयं, नीतिज्ञानविशारदः सकलसच्छास्त्रैकभूतात्मक : ग्रन्थज्ञानविधानतत्परतर : सेवापर : सर्वदा, सर्वज्ञश्च कलौ सुधीविजयतां श्रीहेमचन्द्रप्रभु: ॥२॥ साहित्यश्रुतमातनोत् सुविपुलं ज्ञानुम्बुधिधिद, स्याबादामरपादपं सुललितं योऽवयल्यायतः । सोऽयं तर्कवितर्कदूषितमतिवातस्य जेता क्षमी, सूरि: श्रीप्रभुहेमचन्द्रमुनिपोऽभूवनितीय : कलौ ॥३॥ यत्कीतिर्भूवि विस्तृताऽप्रमितभा स्वगौस्पदं चासव, यस्य ज्ञानप्रभाकरेण विबुधा : सन्तापिता दुर्मता : स्थीचक्रुः प्रणताः स्वयं सुखमय सानिध्यमुश्चाशयः, स श्रीसरिवरोऽनिशं विजयते सर्वत्र सर्वप्रद: ॥४॥ ग्रन्थान्नैकविधानसौ मुनिवरो विस्तारयन् विस्फुटान् , बोधं तं च कुमारपालनृपतिं कुर्वन् जिनाशानुगम् । मारीदोषनिवारणं विधितया संसाधयामासिवान् , स श्री सरिवरोऽनिशं विजयते सौभाग्यसिद्धिप्रदः ॥५॥ यां सर्वे विबुधाः स्तुवन्ति रुचिरां ग्रन्थावलिं यत्कृतां, नान्योऽस्ति क्षितिमण्डले कविवरो यस्योपमांधारयेत् । कस्तेषां सरणिं ब्रजेन्दुरुमतिर्मत्यासमः सद्गुरोः, स श्री सरिवरोऽनिशं विजयते सर्वत्र शान्तिप्रदः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org