SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨૪ શ્રી જૈન સત્ય પ્રકાશ गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, सुदृष्टिभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥३॥ सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् । दयासुधर्मदानवीरसात्त्विकप्रमोददं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ ४ ॥ समानसं समानमिज्यपाददिव्यदर्शनं, विशिष्टभावनाबलाप्ततीर्थक-त्वसंपदम् । चरित्रसाद्यनन्तभंगसिद्धिसौधसंगतं, भमामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥५॥ विवर्णवर्यमध्यमोरुवैखरीवचोगतं, वीदेहजीवनं परात्मभावसंपदं गतमू । विपत्तिदानवोरमोहवार्धिमग्नतारकं, भजामि पार्धनाथमिष्टदाथिनं तमन्वहम् ॥ ६ ॥ विनष्टदोषसंततिं चिताष्टकर्मशोधकं, जगत्स्वरूपभासकं समोपसर्गवारकम् । विनाथनाथलोकबन्धुदेशनोपकारक, भजामि पावनाथमिष्टदायिनं तमन्वहम् ॥७॥ अहं तवास्मि किङ्करो मम त्वमेकनायकः, न भास्करादृते यमीश! वारिजौघबोधनम् । यथा तथा त्वयान्तरा ममाऽपि निर्वृतिः कथं ? भजामि पार्श्वनाथमिष्टदायिनं तमन्बहम् ॥ ८ ॥ जगदगुरौ विलोकिते त्वयि प्रमोददायके, चलं मनः स्थिरं भवेत्किमत्र संशयास्पदम् । स्वभावसिद्धिलाभदो भवेशपाव! सर्वदा, भजामि पानाथमिष्टदायिनं तमन्वहम् ॥९॥ ( शार्दूलविक्रीडित वृत्तम् ) ॥ प्रशस्तिश्लोकद्वयम् ॥ इत्थं गीतगुणावलिर्विजयते सेरीसकस्थप्रभुः, स्तोत्रं मंगलसिद्धिवृद्धिकरणं भव्याः पठन्तु प्रगे । पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजानुभावाद्वरे, धोलेराभिधबंदरे प्रविदिते प्राचीनतासुंदरे ॥१॥ नन्दद्वीपनिधीन्दुमानप्रमिते संवत्सरे वैक्रभे, धन्ये पावनमार्गशीर्षप्रथमाहन्येकभक्त्या मया। विज्ञप्त्या विजयोत्तरस्य शमिनोऽर्हद्भक्तवाचस्पतेः, ध्येयाईत्पदपद्मपभगणिना पाश्र्वाष्टकं निर्मितम् ॥ २ ॥ (युग्मम् ) For Private And Personal Use Only
SR No.521505
Book TitleJain Satyaprakash 1935 11 SrNo 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1935
Total Pages37
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy