________________
कथा
रामो यं त्यजेत् तं को वा रक्षेत् ?
- सा. हंसलेखाश्रीः
यदा राम-लक्ष्मणौ वानराधिपतिः सुग्रीवश्च सीतामुक्त्यर्थं ससैन्यं लङ्कां प्रति प्रस्थितवन्तस्तदातनीयं घटना।
लङ्कागमनाय समुद्रोल्लङ्घनमनिवार्यमासीत् । तदर्थं च रामस्याऽऽदेशेन कपिसेनया मङ्क्ष सागरे सेतुबन्धनमारब्धम् । सहस्रशो वानराः कार्यान्विता जाताः । तैर्हि बृहत्यः शिला उत्पाट्योत्पाट्य वारिधौ प्रक्षेप्तुमारब्धाः । प्रक्षिप्तासु च तासु सतीषु नैकाऽपि शिला नैव निमज्जति स्माऽपि तु सर्वा अपि तरन्ति स्म । एवं च सेतुनिर्माणकार्य सर्वथा सम्यक्तया प्रचलदासीत्।
___अथ समस्तं कार्यं निरीक्षमाणेन रामेणैकदा विमृष्टम् - "इमे वानराः सेतुनिर्माणकार्ये भृशं प्रयतन्ते खलु, तर्हि कथं नाम मयाऽलसतयोपविश्येत ? अतोऽहमपि शिला आनीयाऽऽनीय वारिधौ प्रक्षिपेयं तेषां च सहायको भवेयम्” ।
ततो रामेणैका शिलाऽऽनीता जलधौ च प्रक्षिप्ता । निमेषमात्रेण सा शिला जले निमग्ना। रामो विस्मयचकितोऽभवत् क्रुद्धोऽपि च । स अन्या अपि द्वित्राः शिला आनीय जले प्रक्षिप्तवान्, परं तासामपि सैव गतिः।।
____ अथ च समीप एवोपविष्टो हनुमान् सर्वमिदं नटकमेलकं विलोकयन्नासीत् । अट्टहासं विदधानः सोऽवदत् - "प्रभो ! भवतो नाम्नः प्रभावेण शिला एतास्तरन्ति, किन्तु भवानेव यां मुञ्चेत् तां को वा तारयेत् ?”
एतच्छ्रुत्वा रामस्य मुखं स्मितस्मेरं सञ्जातम् । स कपिसेनायाः भक्तिं समर्पणं च हृदयेनाऽनुमोदितवान्।
******
53