________________
कदलीत्वचं खादितुं तत्परोऽभवम् । अहं सदाऽपि भक्तिमेव श्रेष्ठां मन्ये न पुनः पदार्थान्। भक्तहृदये स्थितान् भावान् सर्वथाऽमूल्यानवगच्छाम्यहं तैरेव च प्रेरितोऽहं प्रवृत्तो भवामि"। ___एतच्छ्रुत्वा विदुर-पारसंव्यौ द्वे अपि सर्वथा प्रमुदिते जाते भगवत आशिषं च गृहीतवत्यौ । श्रीकृष्णोऽपि प्रसन्नमनसा स्वस्थानं गतवान् ।
*
*
*
*
*
*
*
52