________________
शासनं कुरुतेऽखण्डं, वनेऽत्र चिरकालतः। तथाऽपि धर्म-भूपालो, जीवान् मोचयते बलात् ।।२०५।। अतोऽस्माकं महाशत्रुर्ज्ञातव्यो धर्मभूपतिः। भवता तस्य छायातः, स्थेयं सदैव दूरतः ।।२०६।। आवां द्वौ भवतां सेवां, कर्तुकामे सदा मुदा। किन्तु तातस्य निर्देशः, सेवनीयः प्रयत्नतः ।।२०७।। यावत् तातप्रसत्तिः स्यात्, तावदावामनुकूले। इति प्राथमिकी वार्ता, धार्या हृदि विशेषतः ।।२०८।।
आगम्यतां प्रासादे, अलङ्क्रियतां वासगृहम्, अनुभूयतामस्मत्सेवाम् । मनोरञ्जनायेह नैके नर्मभाषिणो जनाः सन्ति । देहश्रम-विनोदाय नैके देहमर्दनकारिणः सेवका विद्यन्ते । ज्ञातिपरिजनाश्च भवतः सदैव साहाय्यं करिष्यन्ति” ।
इत्यादिकां कथावार्ता, श्रुत्वा सिंहः परामृशत् । सद्यः स्मरति प्रज्ञप्तिं, हेयोपादय-दर्शिकाम् ।।२०९।। प्रज्ञप्ति-विद्यया प्रोक्तं, शृणु भद्र ! यथोचितं । इमे द्वे कन्यके शुभ्रे, किन्तु विभ्रमदायिके ।।२१०।। आपातरम्यतां भातः, किंपालफलपाकवत् । अन्ततो विरसे त्वेते, मा गास्तद्वशतां ततः ।।२११।। प्रज्ञप्ति-विद्यया प्रोक्तं, वृत्तं निशम्य वीरसूः । चिन्तयति चं किं कार्य, विधेयं ? हितकृत् किमु ? ॥२१२।। क्षणं सक्तो विरक्तश्च, सिंहो विकल्पनाकुलः। हेया किमु समादेया ?, एते विषमदारुणे ? ।।२१३।। सुबुद्धि-प्रेरितः सिंहो, लक्ष्यसिद्ध्यै समुत्सुकः । कुबुद्धिप्रेरणाच्चाऽयं, क्षणं विश्रान्तिमिच्छति ॥२१४।। तदा समागता विद्या, प्रेरयामास तं दृढम् । नाऽत्र स्थेयं त्वयेत्युक्त्वा , गता तत्क्षणमेव सा ।।२१५।। सिंहसेनस्तु प्रज्ञप्ति-विद्यादेव्याः सुसूचनात्। तत्क्षणं धैर्य-धौरेयो, विवेकधारकोऽभवत् ।।२१६।। मृदुगम्भीरया वाचा सिंहो वक्ति स्म - “भो भद्रे ! विशिष्टकार्याय निर्गतोऽहमत्र स्थातुं न