________________
तथा जलपूरेण सिंहोऽपि किंकर्तव्यमूढोऽभवत् ।
अत्राऽन्तरे साहसिकः सिंहस्तत्क्षणमनिलास्त्रविद्यां प्रयुज्य प्रचण्डमनिलं विरचयति स्म यया सर्वेऽपि वारिदाः क्षणभङ्गुरा इव शीर्णा विशीर्णाश्च जाताः । किन्तु तदैव गगनतला दग्निगोलकवज्ज्वलन्त्यो नैका उल्काः पतितुं लग्नाः । तदा सिंहेन तत्कालमेकं विशालं छ विनिर्मितं यदुल्काऽग्निप्रतिकारायाऽलं भवेद् रथश्च वेगेन तथा प्रेरितो यथा क्षणात् सोपद्रववर्त भूमिरतिक्रान्ता।
इत्येवंप्रकारेण संभविन उपद्रवान् विद्या मन्त्र-बल-प्रयोगेण निवारयन् सिंहोऽग्रत प्रयाति स्म, तदाऽध्वन्यन्येऽपि क्षुद्रोपद्रवाः प्रादुर्भवन्ति स्म । ते त्वेवम् - अजगरा व्याघ्राः शृगालाः, रोगकारकवायुः, विषम-पर्वतमाला, गिरिकन्दराः, इत्यादौ विषमाकुलताप्रसङ्गेऽपि सिंहवद् निर्भयः सिंह एकस्य विशालपर्वतस्योपत्यकायां आगतवान् । कतिपयान् दिवसान् यावद विश्राम्यति स्म, तावदैकदा रात्रौ चतुर्थे यामे सा कुलदेवता स्वप्ने आगता, या पूर्वमपि सहयोगिन्यभवत् । कथितं च - “हे सिंह ! अतः परमल्पाः सूक्ष्मा किन्तु रौद्रपरिणामा विरूपाः कतिपये उपद्रवा भविष्यन्ति, तान् विजित्येष्टमर्थं त्वं लप्स्यसे” ।
स्वप्नं वीक्ष्य महाभागो, जागर्ति सिंहसेनकः । ब्राह्ममुहूर्तसमये, संस्मरन्निष्टदेवताम् ।।१९७।। देवतास्मरणात् प्रातः, पवित्रं जायते मनः । मनोवीर्य-प्रभावेण, भयं न क्वाऽपि जायते ।।१९८।। सुखासनोपविष्टेन, श्रुतः पदरवो मृदु। परितः पश्यति यावद्, दृष्टं कन्याद्वयं तदा ।।१९९।। आवृतं वल्लिपत्राद्यैलतापुष्पविभूषिताम् । सम्प्रेक्ष्योत्प्रेक्षते सिंह, एतत् सत्यं किमु भ्रमः ।।२०।। उपसिंह समेते ते, जङ्गमे कल्पवल्लिके। उवाच प्रथमा तत्र, वाचा सुधामधुरया ।।२०१।। “अहं चाऽरतिदा ज्ञेया, ह्यत्र वने निवासिनी। रतिदा भगिनी नाम्ना, ज्येष्ठा मम रतिप्रदा ।।२०२।। इहत्यजन्तुजातानां, रतिः पात्रानुसारतः। अरतिश्च प्रदीयेते, क्रमशो भाग्ययोगतः ।।२०३।। तातोऽस्ति मोहभूपालो, योग-क्षेमकरः सदा। इहत्य-वनवासिनां, जन्तूनां सर्वयत्नतः ॥२०४।।
42