________________
रूपं च निर्मितवती स्म । निर्भयः सिंहोऽप्यविलम्बेन “परबलस्तम्भिनीं” विद्यां स्मृतवान् । विद्याप्रभावेण सद्यो गृहीतनैकशस्त्रास्त्रा सा गगनाङ्गणे एव चित्रलिखितेव स्थिरीभूता परितापं च प्राप्ता। तां दीनां भीतां विवर्णां चाऽवलोक्य संजातकरुणः सिंहस्तस्यै शिक्षात्मकानि वचनानि भणित्वा विद्यां च संहृत्य विसृष्टवान्, सा च डाकिनी भयभ्रान्तेव ततः पलायिता।
ततोऽग्रे निरुपद्रवं वर्त्म पश्यन् पुरतो जिगमिषुः सिंह इष्टदेवं स्मृत्वा प्रयाणमकरोत् । आश्रमतः प्रयाणकाले कुलगुरुणा प्रदत्ताभिः पञ्चभिर्विद्याभिरिष्टमाहारं, जलं, वस्त्रं, शयना-दिकं च सर्वमुपकरणं च समुपलभ्य सुखं सुखेन याति।
मार्गावलोकनं कुर्वन्, स सिंहः स्यन्दन-संस्थितः। पश्यति तरु-पुष्पाणि, फलानि श्वापदांस्तथा ।।१८२।। प्रसन्नवदनो सिंहः, स्वसाफल्यसमीक्षकः । अकस्मात् प्रेक्षते मन्दं, गच्छति स्यन्दनं किमु ? ।।१८३।। संलोकनेन जानाति, मार्गोऽयं कर्दमाकुलः।। पुरतो विस्तृतं चैव, कर्दमं पूतिगन्धकम् ।।१८४।। यत्र तत्र च सर्वत्र, मार्गो जम्बाल-संभृतः । व्रजिष्यामि कथं न्वग्रे, गन्तव्यं निश्चितं खलु ।।१८५।। हे देव ! हे गुरो ! देहि, सामञ्जस्यं मतौ मम। भवत्प्रसादतो नूनं, सङ्कटोऽयं विनक्ष्यति ।।१८६।। तदा स्मृता क्षणं ध्यात्वोहापोहौ प्रकुर्वतः। गुरुदत्ता वरा विद्या, हयातापिनीति सज्ञिका ॥१८७।। विद्यास्मरणमात्रेण, प्रादुर्भूता शरावली। समन्ततस्तापः, सूर्यकोटिसमोऽभवत् ।।१८८॥ यथा भ्राष्ट्रसमायोगात्, शुष्यन्ति जलबिन्दवः । तथैवाऽऽतापिनीयोगात्, पङ्कः शोषमुपागतः॥१८९।। विलोक्याऽनुमतं, मार्गं रथं वेगादचालयत् । सुखेन क्रमशो गच्छन्, पश्यति काञ्चिच्चित्रताम् ॥१९०॥ रथस्य परितो घोराः, सर्वत्र वज्रतुण्डिकाः। पिपीलिका विवर्तन्ते, दुर्वाराः क्षुद्रजन्तुभिः ।।१९१।। हयान् दशन्ति वैरूपं, हेषन्ते व्याकुला हयाः। तनोति कार्पूरी विद्या, ता निवारयितुं तदा ।।१९२।।