________________
लब्ध्वा देवसुसान्निध्यं, प्रस्फोर्य स्फारपौरुषम् । देवं गुरुं च संस्मर्य, प्रयाति लक्ष्यसिद्धये ॥१७५।। व्रजन् पुरत ऐक्षिष्ट, घना घटा तरूद्भवा। यतः पदमपि तस्यामग्रे गन्तुं न शक्यते ।।१७६।। दुर्गमामटवीं प्राप्य, रथः प्रयाति नो पदम्। सस्मार परशोर्विद्यां, सिंहः समुचितां तदा ॥१७७।। नैके परशवस्तत्र, तीक्ष्णाः प्रकटितास्तदा। वनद्रून् खण्डशः कर्तुं, प्रवृत्ताश्चक्रिचक्रवत् ।।१७८।।[ उपमालङ्कारः] परशुविद्यया तत्र, विघ्नाः क्षणाद् विनाशिताः । प्रयाणं कुरुते सिंहः, स्वेष्टसिद्धि-सुसिद्धये ।।१७९।। श्रेयसि शतशो विघ्नाः, सम्भवन्ति समन्ततः । किन्तु धीरा विवेकेन, लङ्घयन्ति प्रयत्नतः ।।१८०।। सिंहोऽपि धैर्यवान् धीरः, स्वात्मवीर्य-पराक्रमी। यस्माद् बिभेति नो क्वाऽपि, सिंहवन्निर्भयः सदा॥१८१।।
अथ स्वकीयपरमसुखलब्धुकामोऽविनाशि-सम्पूर्ण-स्वाधीन-स्वसाम्राज्यं काम्यन्, अखण्डप्रयाणैः क्रमशो निशामुखे एकं विशालं वटवृक्षं समाश्रितः । तत्राऽश्वान् विश्रामयितुं रथान्निर्बद्धान् कृतवान्, तद्योग्यमाहारं जलं चोपलाभितवान्, स्वयं च विश्रमितुं वृक्षाधःस्थितामेकां शिलापट्टिकामाश्रित्य सुष्वाप । यद्यप्यद्याऽपि तस्य निद्रा नाऽऽगता किन्तु विश्रामाय नेत्रे निमील्य विश्राम्यति स्म । घटिकाद्वयानन्तरमकस्माद् रौद्रारावः प्रादुर्बभूव । श्रवणपथागतं विकटं ध्वनिमाकर्ण्य चक्षुषी उन्मील्य पश्यति स्म किन्तु तत्र न कोऽपि दृग्गोचरोऽभूत् । तथा हा...हा...ही...ही... इत्यादिका विविधा विरूपाश्च ध्वनयः समन्ततो वर्धितुं लग्नाः। सिंहः क्षणं विमृश्य सावधानीभूतः, किमपि विरूपं भविष्यतीति संभाव्य च तत्प्रतीकाराय सज्जीभूतः । अत्रान्तरे कश्चिद् अस्थिपञ्जरस्तत्पुरतः समापतत् । सिंहो यावत् परामृशति स्म - कस्यैतदस्थिपञ्जरः, कुतो वाऽऽगतः ? केन वा किमर्थं प्रक्षिप्तः ?, तावत् भीषणाकृतिः सपरिकरा डाकिन्येका प्रादुर्भूता। चित्र-विचित्रशब्दैराकारैश्च भापयितुं लग्ना। किन्तु निर्भयमचलं स्थिरं गम्भीरं सिंहं निरीक्ष्य साऽऽनुकूल्यं यथा स्यात् तथा वदति स्म यद् - "हे सिंह ! निर्भयत्वेन प्रसन्नाऽस्मि, अतस्ते सान्निध्यमभिलषामि । अहं सदैव तव साहाय्यं करिष्यामि। त्वं मा विमुच्य क्वाऽपि मा गाः” - इत्यादीनि तस्या वचनानि श्रुत्वा भावज्ञः सिंहो वक्ति - “हे भद्रे ! मैवं विधेहि, अहं ते साहाय्यं नेच्छामि, भवती स्वस्थाने एव तिष्ठत"।
सिंहवचनं श्रुत्वा कुपिता सा सिंहमुपद्रोतुं विभिन्नानि शस्त्रास्त्राण्यतिबीभत्सं भयानकं
39