________________
३. सन्ध्या ममाऽप्याह्लादिनी
क्षीयेत दुःखं वा न वा, संक्षीयते ननु यामिनी वर्षेत् पयोदो वा न वा, देदीप्यते खलु दामिनी ।।१।। स्युर्वा न वा प्रतितरु फलानि पचेलामनि वने वने । तनुते वसन्तागममहो कूजनपरा पिकभामिनी ।।२।। कामं घनच्छन्नार्कतः सन्ध्याऽरुणा न विचीयताम् गृष्टिर्न किं तां वक्त्यहो हम्भारवैर्वात्स्यायनी ।।३।। आत्मानमव भद्राऽग्निमित्र विहाय मालविकामिमाम् पुनरेति दयमाना भवन्तमिहैव देवी धारिणी।।४।। त्वच्छागतां कण्ठीरवत्वैश्छादितुं ते सोद्यमाः किन्त्वस्ति मेकिञ्चित्करस्य शिवैव मङ्गलकारिणी ।।५।। या भस्मनो निस्सार्य षष्टिसहस्रकान् दिवमापयत् सा जाह्नवी जननी भविष्यति किं ममाऽपि न तारिणी॥६॥ सन्त्वेव काञ्चनकामिनीप्रभृतीनि तेषां भूतये मम धीः परन्तु दिवानिशं कवितानिकुञ्जविहारिणी ॥७॥ नेयं तुरुष्कगलज्जला दाम्पत्यरत्याभासिनी इयमस्ति गोमुखनिर्गता सुरसरिद्रत्यास्वादिनी ।।८।। व्यतियान्ति दिवसाः कथमहो तेषां कुबेरभुवामिमे इत्येव पश्यत आगता सन्ध्या ममाऽप्याह्लादिनी ।।९।।
*******
14