SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ नन्दनवनकल्पतरोः ३९ तमशाखायाः प्रास्ताविकेऽपेक्षितं राष्ट्रीयं चारित्र्यं भारतीयानामस्माकं, स्वकर्मदक्षतापूर्वकं वृद्धिमेतु, इति प्रार्थ्यते । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ, इति व्यवहारविदुषोः वचनं, भारतजपानसम्बन्धेषु चरितार्थं भवतीति दृश्यते । जवाहरलालनेहरुवर्यैः, आपद्गतस्य जपानस्य कृते, भारतस्योदारः सहयोग: प्रार्थितः । एवमेव प्राप्य सामर्थ्यं, जपानेनाऽपि सहयोगप्रतिभावः सहृदयत्वेन प्रार्थितः । धन्यवादार्हा एषा भावना । अधुना, भारतेन, स्वविकासार्थं विशेषा जागृतिस्सेव्या । सर्वेषामन्येषां सहयोगेन, पुनश्च विश्वगुरुत्वं स्यादस्माकं, गौरवं च जायेत इति को नाम राष्ट्रभक्तो भारतीयो नेच्छति ? एतदर्थं, इच्छानुरूपं प्रयत्नं कर्तुं प्रार्थ्यते परमेश्वरकृपा । सद्धर्मपालनेन कार्यमिदं कार्यमिति ॥ डो. वासुदेव वि. पाठकः 'वागर्थः ' अहमदाबाद - १५. मान्याः, (२) साम्प्रतकाले देववाण्याः पत्रिका दुर्लभा जाताऽस्ति । एतादृशे काले विद्याजगति आश्वासनरूपा नन्दनवनकल्पतरु-नामिका पत्रिकाऽस्तीति नः परिलक्ष्यते । न केवलमहमस्याः पठनं करोमि, किन्तु मदीये महाविद्यालये संस्कृतच्छात्रानपि पत्रिकामेनां पठितुं प्रेरयामि । एतस्याः पठनेनाऽस्माकं संस्कृतभाषाबोधो वर्धतेतरामिति प्रतीयते । एतादृश्याः पत्रिकायाः प्रकाशनार्थं भवद्भ्यो बहुशो धन्यवादा: इति विनिवेदयति 4 - प्रा. मधुसूदनः म. व्यासः मोडासा
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy