SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभाव: (१) सम्पूज्याः आचार्यचरणाः, पूज्या. कीर्तित्रयी, सादरं प्रणतिततिः । नन्दनवनकल्पतरोः विंशतिर्वर्षाणि, संस्कृत-प्राकृतमाध्यमेन, साहित्य-संस्कृतिसेवायाम्। इत्यही बहुधा अभिनन्दनीयम् । एतदर्थं, मान्याः सम्पादकाः, सम्प्रेरका आचार्यचरणाश्च प्रार्थ्यन्ते गौरवाभिनन्दनसमारोहार्थम् । अयनपत्रमस्माकं स्थिरगत्या विवर्धते । सुज्ञास्सहयोगिनस्सर्वे प्रणम्यन्ते सहादरम् ॥अस्तु।। एतद्देशप्रसूतस्य सकाशात् दिव्यजन्मनः ।। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति श्रावं श्रावं, भारतस्य गुरुपदत्वकल्पनया मोमुद्यते चेतः । साम्प्रते काले, यथा जपानदेशः, तथैव इजराइलदेशः अपि समुत्कर्षापन्नः । मूलतस्तत्र, स्वराष्ट्रप्रीतिः वरीवर्तते । कश्मीरतः कन्याकुमारीपर्यन्तम्, द्वारिकातः जगन्नाथपुरीपर्यन्तं च, भव्यमस्माकं राष्ट्र पूजनीयम् । विना जातिभेदं, विना धर्मभेदं, विना वाणीभेदं, विना प्रान्तभेदं; मतैक्येन कमपि भेदं विना, स्वराष्ट्रसेवार्थं कार्यः सङ्कल्पः । कायेन वाचा मनसेन्द्रियैर्वा __बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् । करोमि यद्यत् सेवापरं तत् । स्वराष्ट्रदेवस्य हि पूजनार्थम् ॥ इति भावनया, नीत्या प्रीत्या, स्वस्वकर्मणि जागरूकैर्भाव्यम् ।
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy