________________
प्रोक्तं च
एके सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । संसारे चतुष्प्रकारा मानवा वर्तन्ते । तत्र केचन सज्जनाः - उत्तमपुरुषाः कथ्यन्ते । एते सज्जनाः सर्वदा मित्राणां शत्रूणां चैवं सर्वेषामपि जनानां शुभं हितं चैव वदन्ति कुर्वन्तीच्छन्ति च । ततः स्वकीयं स्वार्थं हितं शुभं चेत्यादिकं सर्वमपि गौणीकृत्य केवलं परमार्थकरणे एव रममाणाः सन्ति ते सज्जनाः । यथा महावीरः कृष्णो बुद्धश्चेत्यादिकाः सर्वेऽपि महापुरुषाः उत्तमपुरुषा इत्यनेनोच्यन्ते ।
सर्वस्मिन्नपि जगति वर्तमानैरनेकैहितचिन्तकैः यस्याऽहिंसा-अपरिग्रह-अनेकान्तवादादिसिद्धान्ताः पूजिताः तेन चरमतीर्थपतिना त्रैशलेयेन पूर्वतृतीये भवे "शिवमस्तु सर्वजगतः" इति भावनया सर्वेषामपि जीवानां शुभं कर्तुं प्रयत्नः कृतः, तदर्थं च तेन महावीरेण स्वकीयं सर्वस्वमपि गौणीकृतम् । वयं सर्वेऽपि चीटिकायां तदात्मानं पश्यामः किन्तु तीर्थकरमहावीरेण तु चीटिकायामपि स्वात्मा संदृष्टः । ततो महावीरः कस्याऽहितं कुर्यात् ? काँश्च मारयेत् ? एका पंक्तिः स्मर्यते - अत्र केन को हन्यते ? यतः सर्वेऽपि जीवा मे बान्धवाः सन्ति । दर्पणे सर्वेऽपि जीवा मादृशा दृश्यन्ते ।
प्रभुमहावीरेण "शिवमस्तु सर्व जगतः" इति परार्थकरणभावनया तीर्थकरनामकर्मोपार्जितम् । भगवत एतद्भावनाया महत्ता त्वतुलनीयाऽस्ति । महावीरः परमसामर्थ्यस्य स्वाम्यासीत् । स्वामिनैकेनाऽङ्गुष्ठेन मेरुगिरिश्चालितः । एतादृशे सामर्थ्य सत्यपि प्रभुमहावीरेण केषाञ्चिदप्युपसर्गकारकाणां नाऽशुभमहितं च कृतं चिन्तितं च, न च तादृशानां प्रतीकारः कृतः । महावीरेण तु तेषामुपसर्गकारकाणामपि शुभं हितं मङ्गलं चैव चिन्तितम् । यदा हिंसकैः पशुभिः पक्षिभिर्मानवैश्च प्रभुदेहेऽसह्योपसर्गाः कृताः, तदाऽपि स्वदेहं गौणीकृत्य तीव्रवेदनां विषह्याऽपि च तेषां सर्वेषामपि शुभमेव चिन्तितम् ।
एवमेतादृशाः परार्थकरणे तत्परा जीवाः सज्जना उत्तमपुरुषाः कथ्यन्ते ।
परे केचन सामान्यजना मध्यमपुरुषा उच्यन्ते । एते जनाः स्वार्थं स्वहितं च संसाध्य परमार्थकरणे उद्यता भवन्ति । यथा सामाजिककार्यकराः समाजस्य नगरस्य चोन्नत्यर्थं सततमादिनं प्रयतन्ते । ते जना वाणिज्यं गृहं च विमुच्याऽपि सत्कार्यार्थमितस्ततो धावन्ति, किन्तु स्वहितं केन्द्रीकृत्यैव तत्तत्कार्यं,
१. यहाँ किसको पत्थर मारे, कैसर कौन पराया ?
शीशमहलमें हर एक चेहरा, मुझसा लगता है।