________________
पत्रम्
पत्रम्
-मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु !
भवन्तः सर्वेऽपि कुशलाः स्युरित्याशासेऽहम् । भगवतोऽनुग्रहाद् वयं सर्वेऽपि निरामयाः स्मः । नवसारीनगरे चातुर्मासी पूर्णीकृत्य समीपस्थेषु बारडोली-माण्डवी-व्यारा-बुहारी-वांसदा-धरमपुरेत्यादिषु ग्रामेषु विहरन्तो वयं पुनर्नवसारीनगरे सानन्दमागताः स्मः । एतेषु ग्रामेषु रमणीया नयनरम्याश्च प्राचीनजिनालयाः सन्ति । अत्रस्थाः श्रावकजना अपि सरलस्वान्ताः श्रद्धान्विता भक्तिभराश्च सन्ति । एतेषां नगराणां रचना अपि मन आकर्षति ।
बन्धो ! अद्य मानवस्वभावमाश्रित्य किञ्चिल्लिखामि । स्वभाववैचित्र्येण मनुष्या भिन्न-भिन्नप्रकृतयः सन्ति ।
केचन परार्थतत्पराः सन्ति, केचन स्वार्थपरायणाः सन्ति, केचन दुष्टप्रकृतयः सन्ति, केचन च प्रशंसाप्रेमिणः सन्ति ।
बाह्यदृष्ट्या समस्तजनानां स्वभावो वर्तनं वचनं च भिन्न-भिन्नस्वरूपाणि सन्ति, यतो जना यथासमयं परावर्तनशीला भवन्ति । क्वचित् सरलः, क्वचिद् वक्र:, क्वचिद् रागी, क्वचिच्च द्वेषी - एवं जनाः स्वार्थवशेन प्रतिक्षणं स्वस्वरूपं परिवर्तयन्ति । येषां मनोवृत्तिः शुद्धाशया सरला चाऽस्ति ते जना न कदाऽप्यसंतुलितमानसा भवन्ति, ते तु सर्वानपि जनान् सरलरूपेणैव पश्यन्ति । एवं ये जना मलिनहृदयाः कुटिलबुद्धयश्च सन्ति, ते जना अन्यान् जनान् वञ्चयन्ति, तथैव कदाचित्त एव जना अन्यान् प्रशंसयन्ति अपि । यतस्ते तु केवलं स्वार्थमेव साधयितुं तत्परा भवन्ति ।
२३