SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रुतयत्नैराराधिता वीणापाणिरहो नु । उपक्रमे ननु दुष्करः सम्प्रत्यपि भुवि को नु ? ॥५६॥ सत्कवयः श्रद्दधतु ते शुचं कुकवयो यान्तु । मत्सरिणो मूढाः स्वयं नहुषाः पतनात्पान्तु ॥५७॥ . लालाटिकयत्नैरलं परितो निजं प्रकाश्य । सुध्युपास्यतां नय सखे ! भुवि वैधेयोपास्य ! ॥५८|| -. ३. नीतिदोधकानि पाणिनिभूर्ननु वेदभूः सप्तसिन्धुभूश्चाऽपि । नैव कदर्थय तां भुवं लब्धिरत्र नो काऽपि ॥१॥ कण्ठीरवकुलजातकाः पाञ्चनदाः शृणुताऽद्य । वीरभक्तसिंहो वदति किमपि मनसि सन्तप्य ॥२॥ भारतपृतनानायकाः स्वातीतं संस्मृत्य । राष्ट्रमिदं सारयत भो गुरुवाणी संश्रुत्य ॥३॥ जिह्वाग्रे ते राजते 'जिन्दाबादेस्लाम' । अस्माकं हृदि गुञ्जति 'जय शिव माधव राम !' ॥४॥ खालिस्ताने निर्मिते किं सरितां वरवारि । साक्षादमृतं भवति भो रक्तनिचयसञ्चारि ॥५॥ शीलमपहृतं योषितां यैर्नु तुरुष्कैर्हन्त ! तत्क्रोडे क्रीडथ सुखं प्रथितखालसापन्थ ॥६॥ श्रीगुरुतेगबहादुरैः प्राणोत्सर्गमुपेत्य । यो धर्मो ननु रक्षितस्तं विद्वेक्षि समेत्य ? ॥७॥ भारतजननीसौधके सिंहद्वारमिव भाति । मा विधेहि तज्जम्बुकद्वारमिदं न पुनाति ॥८॥ रोत्स्यसि कावेरीजलं रोद्धं क्षमसे साधु । क्वेदं ते वानरमुखं क्वाऽऽम्रफलं सुस्वादु ॥९॥ पश्य न परकीयं सुखं स्वीयसुखाय यतस्व । लाभः कस्ते परसुखैः लाभं निजं लभस्व ॥१०॥ १८
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy