________________
प्रसन्नचित्ताभ्यसनैः सरस्वती कवित्वशक्तिं जनयत्युपासके। जलैः प्रसिक्ता भुवि मल्लिकालता जनाय दत्ते कुसुमं मनोहरम् ॥८०॥ क्षीराम्बुधि वर्णयितुः कवीशितुर्गेहे शिशोर्दुग्धकणोऽपि दुर्लभः । भूपाय हेमाभरणानि कुर्वतः स्वप्नेऽपि भार्या लभते न कङ्कणम् ॥८१॥ प्रदर्शयन् सुन्दरपुष्पवैभवं तरुः समाकर्षति बम्भरान् बहून् । प्रकाशयन्नात्मविचारकौशलं बुधो जनान् आत्मवशान् करोत्यसौ ॥८२॥ न पण्डितास्सन्ति विमत्सराः क्षितौ न दर्पहीना दिवि सन्ति देवताः । अचञ्चला न प्रमदाः कलौ युगे न कोपहीना विपिने महर्षयः ॥८३।। न पिप्पलस्याऽस्ति मनोरमं सुमं फलं न च स्वादु तथाऽपि सोऽर्च्यते । पुरोहितो नैव गुणी न पण्डितो जनैः समस्तैस्तु सदा निमन्त्र्यते ॥८४॥ विना गृहिण्या भवनं महावनं धनं विना जीवनमूषरावनिः । गुणं विना मानव एव राक्षसो विना श्रुतिं गानमपादनर्तनम् ॥८५॥ गणाधिपं यः सततं समर्चति प्रपूजयत्येव स मूषिकं सदा । प्रसन्नतां यो नृपतेरपेक्षते स तस्य दासं च धिनोति बालिशम् ॥८६।। अत्युन्नतास्सन्ति धराधराः क्षितौ निम्नास्तथा सन्त्यवटाः पदे पदे । श्रेष्ठा उदारा विलसन्ति सज्जना नीचा विराजन्ति च लोकशोषकाः ॥८७॥ रूपेऽप्रशस्योऽश्रवणार्हनादोऽप्युष्ट्रो जनैः पाल्यत एव दाढ्यात् । अज्ञातवंशोऽप्यविचार्यशीलो योधो नृपस्येष्टतमो हि शौर्यात् ॥८८॥ शोके निमग्नाः स्वयमन्यतुष्टये कुर्वन्ति नृत्यं प्रहसन्मुखा नटाः । दन्दह्यमाना अपि भूरि चन्दना आमोदमल्पेतरमाशु तन्वते ॥८९॥ राजते भाजने राजतेऽङ्कोऽल्पको दृश्यते नाऽऽयसे द्राक् कलङ्को महान् । कथ्यते राघवेऽप्यल्पदोषो जनै रावणे स्मर्यते नैव दोषव्रजः ॥१०॥ विराजते वारिनिधिः समन्ताद् यादांसि रत्नानि च सर्वदाऽवन् । क्षमापतिः पालयति स्वगेहे धूर्तास्तथा पण्डिततल्लजांश्च ॥११॥ वेदशास्त्रकुशलोऽपि तपस्वी क्रोधरूक्षहृदयो विवर्ण्यते । रत्नराशिभरितोऽपि समुद्रो घोरमत्स्यनिबिडो विनिन्द्यते ॥१२॥ विष्णुं वहन्नपि चरन् गगने खगेन्द्रो दग्धोदराग्निशमनाय पलानि भुङ्क्ते । वेदं पठंश्च विहरन् परमात्मधाम्नि प्राज्ञः स्त्रियं श्रयति मन्मथतापशान्त्यै ॥९३॥
१०