________________
रुग्णे मुमूर्षत्यपि वैद्यराजो प्रयुङ्क्त एवोत्तमभेषजानि । अनिश्चयेऽप्यागमनस्य वृष्टेः कृषीवला बीजचयं वपन्ति ॥ ६६ ॥ रुग्णस्य वैद्यो यतते ह्यसूनां रक्षार्थमायुस्तु विधेरधीनम् । कविर्जनान् रञ्जयति स्वकाव्यैः संस्कारजन्या तु रसानुभूतिः ॥६७॥ निम्बस्य पुष्पं च फलं च तिक्तं तथाऽपि सेव्यं गदहारकत्वात् । उक्तिः कृतिश्चाऽऽर्यजनस्य तीक्ष्णा ग्राह्या सदा त्वघवारकत्वात् ॥६८॥ राज्ञः प्रतापः करुणा च दित्सा भवन्ति चेत्तर्हि शुभं प्रजानाम् । गुरोर्मतौ तेज उदारता च विद्या च चेच्छिष्यगणाः कृतार्थाः ॥ ६९ ॥ तालाश्च सालाश्च वटा विशालाः सन्त्याम्रतुल्या नहि ते फलेषु । भाषा भवन्त्यत्र जगत्यसंख्या माधुर्यधुर्या तु निलिम्पभाषा ॥७०॥ पलाशपुष्पाणि निरीक्ष्य भृङ्गः प्राप्नोति वृक्षं लभते न कित् । आडम्बराकृष्टमना मनीषी गत्वाऽज्ञमाढ्यं भजतेऽर्धचन्द्रम् ॥७१॥ सुहृद्भिराप्तैः सह मोदमानं नरं यमो निष्करुणो निहन्ति । फलैश्च पुष्पैश्च तरुं समृद्धं प्रचण्डवेगः पवनो भनक्ति ॥७२॥ सूनाधिपो जैनगुरुर्भवेच्चेल्लोकस्य पापैः फलितं समस्तैः । संगीतगेहे बधिरो यदि स्यान्निर्णायकः श्रोतृगणोऽपि धन्यः ॥७३॥ पक्षी प्रयत्नैः कुरुते स्वनीडं तं मर्कटो ध्वंसयति क्षणेन । प्रेम्णा जनन्या शिशुमेध्यमानं क्रूरो झटित्याहरते कृतान्तः ॥७४॥ एकोऽपि हन्तुं मशकः समर्थो मर्त्यं समुत्पाद्य विचित्ररोगान् । एकोऽपि दुष्टः कुलकीर्तिहारी कलङ्कदोषाञ्जनयन्ननेकान् ॥७५॥ काकश्च पक्षी चटकश्च पक्षी किं तावता तौ गरुडेन तुल्यौ ? इन्द्रोऽपि देवो वरुणोऽपि देवस्तौ मूर्ध्नि धत्तः सुजिनाङ्घ्रिरेणुम् ॥७६॥ नभो विभात्यभ्रसमूहमेदुरं तडिल्लताभिः परितः प्रदीपितम् । पुरं निशीथे तमसावृतं भृशं चकास्ति भूयोऽप्यभिसारिकागणैः ॥७७॥ भवन्ति लोके विहगाः सहस्रशः पिकस्तु गानेन ततो विशिष्यते । वसन्ति भूमौ बहवोऽत्र मानुषाः कविस्तु काव्येन विराजते पृथक् ॥७८॥ वनाय रामेण विनैव सूचनां समीरिता तं न निनिन्द जानकी । विनाऽपि पापं विधिनाऽत्र सङ्कटे निपातितो नैव बुधोऽत्र रोदिति ॥७९॥
९