________________
हास्यकणिका:
- मुनिश्रुताङ्गचन्द्रविजयः
(एको बालो हस्ते हिमखण्डमेकं गृहीत्वाऽतिनिरीक्षया पश्यन्नासीत् । एतादृशं तं दृष्ट्वा) अपरो बालः भोः ! अस्मिन् हिमखण्डे किं पश्यन्नसि त्वम् ? प्रथमो बालः अस्मात् खण्डान्निरन्तरं जलं स्रवति । तदहं पश्यन्नस्मि यत् कुत्र छिद्रं वर्तते !!
एप्रिल-मासस्य प्रथमे दिनाङ्के केऽपि परिणीताः पुरुषा न वञ्चयितव्याः । यतस्ते सर्वे पूर्वमेव वञ्चिताः श्वसुरपक्षेण !!.
पत्नी भवान् अतीव सरलोऽस्ति । कोऽपि जनो भवन्तं वश्चयितुमर्हति । पतिः तस्य प्रारम्भस्तु भवत्याः पित्रैव कृतः ।।
भिक्षुकः श्रेष्ठी भिक्षुकः
स्वामिन् ! एकं रूप्यकं ददातु । केवलमेकं रूप्यकम् । श्वो दास्यामि । श्व आगच्छतु । किं वदेयं भोः ! ? श्वः श्वः - इति वचनदानेन तु मम लक्षं रूप्यकाण्येतस्यां प्रतोल्यां ग्रहीतव्यानि शिष्टानि !!.