SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जिनमत्या युतो नित्यं, जिनदासोऽपि शुद्धधीः । आचार्यबर्यवक्त्राब्जात्, शृणोति धर्ममार्हतम् ॥४९३।। जिनेन्द्रप्रतिमामर्छन्, ददद् दानं च पात्रके । साधमिकेषु वात्सल्यं, धरन् व्रतपरायणः ॥४९४।। धर्ममाराधयन्नेवं, कियान् कालः व्यतीतवान् । पुराकृतानि पुण्यानि, फलन्त्येव नृणां ध्रुवम् ॥४९५।। श्रीधर्मघोषसूरीश - पार्वे प्रान्ते सभार्यकः । दीक्षामादाय प्राराध्य, देवलोकातिथित्वमैत् ॥४९६।। इतश्च जिनदत्तोऽसौ, जिनरक्षितसंयुतः । न्यायेन पालयन् राज्यं, धर्मकृत्यरतोऽभवत् ॥४९७।। जिनेन्द्रचैत्यरुच्यानि, नगराणि समाचरन् । कुर्वन् धार्मिकवात्सल्यं, दीनादींश्च समुद्धरन् ॥४९८।। सद्धर्मकृत्यैः पूज्याह-च्छासनं च प्रभावयन् । श्राद्धधर्मधुरीणः स, निनाय समयं सुखम् ॥४९९।। भवाब्धितारिणीं दीक्षा-मादाय गुरुसन्निधौ । शास्त्राण्यधीत्य चारित्रं, शुद्धमाराध्य भावतः ॥५००।। तपस्तप्त्वा चिरं प्रान्ते, कृत्वा पञ्चनमस्कृतिम् ।। मृत्युं समाधिना प्राप्य, स्वर्जगाम निराकुलः ॥५०१॥ (युग्मम्) ततश्च्युत्वा च सम्प्राप्य, नरत्वं धर्मवासितम् । क्रमशो धर्ममाराध्य, सिद्धि प्राप्स्यति निश्चितम् ॥५०२।। इत्येवं श्रेष्ठिवर्य श्री-जिनदासकथां शुभाम् । श्रुत्वा शुद्धधिया धर्म, समाचरन्तु धीधनाः ॥५०३।। इति उपाध्यायश्रीहेमचन्द्रविजयगणिवर्यविरचिता जिनदासश्रेष्ठिकथा समाप्ता ॥ * * * ... ७५
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy