SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ बद्धं मामन्वहं तोत्र - ताडनेन मदक्षितः । च्युतमौक्तिकजातं च, गृह्णाति स दयोज्झितः ॥४०२।। (युग्मम्) नवां वधूमधुना त्वां, विवोढां भाटकेन हि । कृपणस्याऽर्पयिष्यामि, कुष्ठिने तस्य सूनवे ॥४०३।। तन्मां मोक्ष्यति कुश्रेष्ठी, पापिष्ठः पुत्रप्रेमतः । प्रेमान्धा न हि पश्यन्ति, परपीडां कदाचन ॥४०४।। सुन्दरि ! पश्य मामेष, निर्ममः करसज्ञया । आज्ञापयत्यवतरीतुं, रंहसा स्यन्दनादतः ॥४०५।। अतोऽहं द्राग्गमिष्यामी-त्युक्त्वाऽसौ मौक्तिकक्षरः । अवतीर्य रथात्तूर्णमारुरोह रथान्तरम् ॥४०६।। अथाऽसौ श्रेष्ठिनः कुष्ठी, पुत्रो रथमुपागमत् । आरुरुक्षू रथं शीलवत्याऽऽरोहन्तमञ्जसा ॥४०७।। पार्श्वस्थदासीहस्तेन, पातयामास तं भुवि । स भूयो रथमारोढु- माजगाम पुनश्च तम् ॥४०८।। चेटी पाणितलेनाऽधोऽपीपतद् वेगभागिना । ततोऽसौ खेदमापन्न-स्तत्र रुदन्नवास्थित ॥४०९।। श्रेष्ठिप्रभृतयो लोकास्तामागत्य बभाषिरे । किमेवं कुरुषे ? साऽवक्, कुष्ठिकोऽयं न मे वरः ॥४१०।। परिणेता तु मां योऽति-रूपवान् राजपुत्रवत् । तस्माद् यद्येष आयाति, तदा निष्कासयामि तम् ॥४११॥ तत्रैवं पथि वाग्युद्ध-मभूत्तेषां परस्परम् । मध्यस्थपुरुषा ऊचु-रत्र वाक्कलहेन किम् ? ॥४१२।। यत्कार्यं तद् गृहे कार्य, लोकमध्ये क्वचिन्नहि । मौक्तिकक्षारकोपेता, जग्मुर्गामं समे जनाः ॥४१३।। शीलवत्या निवासाय, वासमेकं समार्पयत् । तत्र दासीयुता शील-वत्युवास यथासुखम् ॥४१४।। ६८
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy