________________
अजायत विवाहोऽपि, महामहपुरस्सरम् । दुर्घटघटनानिष्णो, विधिरगम्यकृत्यकृत् ॥३८९॥ मौक्तिकक्षारिणा साधू, शीलवत्या विधानतः । करमोचनकालेऽदा- ज्जामात्रे द्रविणं बहु ॥३९०।। एवं वैवाहिकमहा-महे पूर्णे ततोऽखिलाः । वरपक्षगता लोका, निर्ययुर्नगराबहिः ॥३९१॥ असौ शीलवती पित्रोः, प्रणम्य चरणाम्बुजे । प्रसन्नमनसः प्राप्याऽऽशिषं तुतोष वणिनी ॥३९२।। मौक्तिकक्षारिणा साधू, स्वामिनाऽऽनन्दमण्डिता । रथवर्यं समारुह्य, प्रास्थात् पतिगृहं प्रति ॥३९३।। सुरूपं स्वपति प्रेक्ष्य, मुदा मेदुरमानसा । स्वजन्म सफलं मेने, सुखं दैववशंवदम् ॥३९४।। हृदं मान्त्या मुदा साऽथ, प्राशंसद् दासिकाग्रतः । रम्भिके ! मे पती राज-कुमार इव दृश्यते ॥३९५।। अहं पुण्यवती स्त्रीषु, यदीदृक्पतिमीयुषी । रम्भाऽऽह युवयोर्योग-कलां वेत्ति विधिः खलु ॥३९६।। सोऽपि मौक्तिकनिःक्षारी, न किञ्चित्प्रत्यभाषत । चलचित्तोऽथ लुलुके, स्मयमान इतस्ततः ॥३९७|| ततः शीलवती स्वीय-पतिं वीक्ष्याऽतिचञ्चलम् । अस्याऽऽस्यं श्यामलं म्लानं, चिन्तया वह्निकल्पया ॥३९८।। तदाऽपृच्छदये नाथ !, विनोदसमयेऽधुना । किमेवं चञ्चलस्वान्तो, लक्ष्यसे ? कारणं वद ॥३९९।। मौक्तिकक्षारकोऽवक् तां, बाले ! नाऽहं पतिस्तव । भाटकेन मयाऽसि त्वं, परिणीता पराज्ञया ॥४००॥ यदेष कृपणश्रेष्ठी, मौक्तिकग्रहणेच्छया । स्वगेहे सप्तमावन्यां, मञ्जूषायां निरुध्य माम् ॥४०१॥