________________
जिज्ञासमानस्तद् वृत्तं, धर्मदासोऽतिविस्मितः । कुतः कान्दविकः प्राप-दिति निर्णेतुमन्ततः ॥१९४।। सोऽपि तत्र समाहूतः, पृष्टश्चाऽपि न्यवेदयत् । मयैव निर्मिता भद्र !, विक्रीयन्ते च प्रत्यहम् ॥१९५।। एवमेवाऽत्र भो धीमन् ! चिरकालान्निरन्तरम् । क्रयविक्रयरूपेण, व्यवहारो चलत्ययम् ॥१९६।। आकर्ण्य तद्वचः श्रेष्ठी, सक्रोधस्तमवोचत । सत्यं निवेदयाऽऽशु त्वं, नो चेद्दण्डेन योक्ष्यसे ॥१९७।। सत्यमुक्तं तदा तेन, यथा प्राप्तिस्तयोरभूत् । गृहीतौ मोदको काष्ठ-हारकेभ्यः स्वहट्टके ॥१९८।। श्रेष्ठिना वास्तवं ज्ञातु - माहूताः काष्ठहारकाः । दर्शयित्वा भयं किञ्चि-त्पृष्टस्तेन च तद्यथा ॥१९९।। सत्यमुक्तं ततस्तैस्तु, गृहीता मोदका यथा । अरण्ये श्रेष्ठिनं कञ्चिल्लुण्टित्वा खलु निर्जने ॥२००।। इति वृत्तं तु विज्ञाय, श्रेष्ठिना चिन्तितं भृशम् । बालकार्थं मया दत्ता, लुण्टाकैस्तेऽपि लुण्टिताः ॥२०१।। जिनदासनिषिद्धेऽपि, मोदकग्रहणे तदा । मया दत्ता बलात्तस्मै, ततो जातः स दुःखितः ॥२०२।। महात्मनस्तु तस्याऽहं, दुःखहेतुरिहाऽभवम् । किं करोमि विधिस्तस्मै, यदि रुष्टोऽस्ति साम्प्रतम् ॥२०३।। अनुकूले विधौ सर्वमनुकूलं प्रजायते । प्रतिकूले विधौ सर्व, प्रतिकूलं भवत्यलम् ॥२०४॥ दैवाधीनं जगत् सर्वं, नाऽत्र कार्या विचारणा । अचिन्तितं समायाति, चिन्तितं याति दूरतः ॥२०५।। रामो भावी नृपः प्रात-जंगाम गहनं वनम् । इत्थं विचिन्त्य निश्चिन्तो, धर्मदासोऽभवत्तदा ॥२०६।।
.