SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विलोक्य धर्मदास-स्तच्चिन्तयामास तत्क्षणे । एतन्मोदकलाभस्तु, कुतः कस्याऽपि वा कथम् ? ॥१८१॥ ततः कान्दविकाद् हट्टा-दानीतौ तौ स्वमोदकौ । संप्रेक्ष्य श्रेष्ठिना तत्र, तयोरेकश्च खण्डितः ॥१८२।। तन्मध्यानिःसृतं रत्न- मेकं दृष्टं सविस्मयम् । ततो भग्नाद्वितीयस्मा-न्मोदकाच्च द्वितीयकम् ॥१८३।। एवं रत्नद्वयं प्रेक्ष्य, श्रेष्ठिनाऽऽशु विचारितम् । तावेतौ मोदकौ स्तो यौ, दत्तौ रत्नयुतौ मया ॥१८४॥ जिनदासकृते पूर्वं, मोदकाः रत्नसंयुताः । तस्मै दत्तास्तु चत्वारस्तत्राऽपि द्वितयं कथम् ॥१८५।। जिनदासेन विक्रीती, गृहीतौ वा ततो बलात् । केनाऽपि निर्दयेनेति, निर्णेतुं किङ्करं द्रुतम् ॥१८६|| कथितं धर्मदासेन, विश्वस्तं बुद्धिमत्तमम् । यावन्तो मोदकाः सन्ति, हट्टे कान्दविके स्थिताः ॥१८७।। गृहीत्वाऽऽगच्छ तान् सर्वान्, नाऽत्र कार्या विचारणा । निशम्य तद्वचः शीघ्रं, कार्यदक्षः स किङ्करः ॥१८८॥ गत्वा कान्दविकं स्वामि-निर्दिष्टं स न्यवेदयत् । सविधे तेऽधुना सन्ति, यावन्तश्चाऽपि मोदकाः ॥१८९।। देहि मे निखिलांस्तांस्त्वं, स्वाम्यादेशप्रपूर्तये । किङ्करस्य वचः श्रुत्वा-ऽब्रवीत् कान्दविकश्च तम् ॥१९०।। द्वावेव मोदकौ पार्श्वे, वर्तेते मम साम्प्रतम् । इत्युक्त्वा तौ ददौ तस्मै, किङ्कराय स मोदकौ ॥१९१।। गृहीत्वा किङ्करश्चाऽपि, धर्मदासाय तौ ददौ । भञ्जयामास तौ तूर्णं, स विज्ञातस्वमोदकः ॥१९२।। भग्नाभ्यां च ततस्ताभ्या-मपि रत्नद्वयं तथा ।। विनिर्गतं तदा वीक्ष्य, न तद्धेतुमबुध्यत ॥१९३॥
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy