SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ खण्डेनैतेन किं नष्टे, सर्वस्मिन्नपि वस्तुनि ? । गजराजे गते मोहो, धोरणिग्रहणे हि कः ? ॥३८॥ अथवा धारयाम्येतत्, "क्षेपात् संधारणं वरम्" । इति निश्चित्य सोष्णीषे, स्थालखण्डमदो धरत् ॥३९।। जलेऽथाऽपसृते नद्यास्तेऽवतीर्य महीरुहात् । किंकर्तव्यविमूढाश्च, चेलुरेकां दिशम्प्रति ॥४०॥ उभौ शिशू परिश्रान्तौ, तयोरेकं शिशुं प्रसूः । श्रेष्ठी चान्यं समारोप्य, स्वं स्वं स्कन्धं प्रजग्मतुः ॥४१॥ अल्पीयसि गते मार्गे, क्षुत्पिपासादितौ सुतौ । क्षुत्पिपासासहिष्णू तौ, ययाचाते स्वभोजनम् ॥४२॥ ताभ्यां भोज्यं प्रदातुं न, समर्थौ दम्पती उभौ । अमन्ददुःखपाथोधौ, सहसैव ममज्जतुः ॥४३॥ मार्गे सुदैवाल्लब्धानि, सुपक्वाम्रफलानि ते । आस्वाद्याऽऽसादितस्वास्थ्याः , प्रचेलुः पुनरग्रतः ॥४४।। एवं मार्गं च दुःखं च, व्यतिक्रम्य पदातयः । स्वकीयदेशान्निरगुः, शनैर्दूरतरं समे ॥४५।। अन्नोदकोपभोगो हि, बलीयानिति विश्रुतम् । अदृष्टमश्रुतञ्चैष, देशं नयति देहिनम् ॥४६॥ विह्वला नीरसगलाः, बुभुक्षाक्षामकुक्षयः । येन केन प्रकारेण, पुरं विमलमाययुः ॥४७|| तत्पुरस्य बहिः श्रेष्ठी, संस्थितः सपरिच्छदः । कथञ्चित् यापयामास, दुर्दैवात् कृच्छ्रजीवनम् ॥४८॥ सार्थवाहश्च तत्राऽऽसीद्, धर्मदासो महोद्यमी । क्रयाणकानि संगृह्य, वाणिज्यार्थं गतः पुरा ॥४९|| सिन्धुमार्गेण गच्छन् सन्, रत्नद्वीपादिकस्थलम् ।। नानाविधानि रत्नानि, सोपार्जयदनाकुलः ॥५०॥ ४०.
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy