________________
एतद्वाक्यमस्ति ज्ञानिमहात्मनां किन्त्वज्ञानिनामस्माकं वाक्यमस्ति न भाषणीयो गुणवादः । दुर्जनैः किम् ? किन्तु निर्मलचारित्रवतः सज्जनानपि प्रशंसितुं जिह्वा न प्रयतते तान्निन्दितुं च जिह्वोत्कण्ठिता भवति ।
बन्धो ! निन्दाकरणस्याऽपि मर्यादा भवति । पूज्यजनानां गुरुजनानां मातापितॄणां गणधराणां जिनानां चाऽपि निन्दां वयं कुर्मः । कथमेतत् शोभते ? निन्दाकरणशीलो बाह्यदृष्ट्या धार्मिकः सन्नपि दुर्गतिमेवाऽऽप्नोति, इति निःशङ्कं ज्ञेयम् ।
गुर्जरदेशस्य महामात्यो वस्तुपालः प्रार्थयति
दोषवादे च मौनम् ।
वस्तुपालेन स्वजीवनेऽनेकानि सत्कार्याणि कृतानि । महान्त आचार्य भगवन्तोऽपि वस्तुपालस्य नामोल्लेखं विधाय स्तुतिं कुर्वन्ति । एतादृशो महाश्रावको वस्तुपालः प्रार्थयति प्रभो ! कस्याऽपि निन्दाकरणेऽवर्णवादकरणे च मम जिहवा स्थिरा भवेत् - स्थगिता भवेत् ।
अवर्णवादकरणमतीव निन्दनीयमस्ति इत्येतेन ज्ञायते ।
वर्जनीयो दुर्जनसंसर्गः -
अशुभशीलानामस्माकं कृते एतदशक्यमस्ति । अस्माकं सज्जनैः सह मैत्री अस्ति उत दुर्जनैः सह ? सज्जनः कः ? यो लोकनिन्दनीयं कार्यं न करोति, सदाचारपालनेऽनुरक्तोऽस्ति, कस्याऽप्यवर्णवादमशुभं च न करोति, सदा च सत्यमेव वदति ।
दुर्जनः कः ? यो लोकविरुद्धकार्यमेव करोति, दुर्गुणानेव पोषयति, उन्मार्गमेव च प्रशंसते । योऽस्माकं मिथ्याकथनं मिथ्याचारं चाऽपि प्रशंसते पोषयति च, प्रभूतमपराधमप्युपेक्ष्य प्रशंस स एव मैत्रीयोग्योऽस्तीत्यस्माकं रुचिरस्ति । वस्तुतोऽस्माकं मैत्री दुर्जनैः सह शोभते ।
बन्धो ! यदि त्वमात्मिकोन्नतिमिच्छेः तर्हि प्रथमं दुर्जनसमागमं त्यजेः ।
यतितव्यं परार्थे -
एष मम, एष तव – चेति ममत्वं विजहाति यः, स एव परोपकारकरणाय योग्योऽस्ति । 'ममतवे'ति भेदयुतो परोपकारोऽपि वस्तुतो न हिताय भवति, यत एषा रीतिस्तु ममत्वं वर्द्धयति । बन्धुः उत परकीयः स्यात्, स्नेही उत विरोधी स्यात्, येषां केषाञ्चिदपि दुःस्थितिं निरीक्ष्य तेषां साहाय्यं करणीयम्, स एव परोपकार उच्यते । अद्य परोपकारस्य व्याजेन स्वहितं, स्वप्रसिद्धि चैव साधयति जनः ।
अस्माकमासन्नोपकारिपरमात्मभिः श्रीमहावीरस्वामिभिः स्वदेहस्य ममत्वमपि विहाय जगज्जीवहिताय नि:स्वार्थभावेन प्रयतितं, तेषामेव परमोपासकैरस्माभिः केवलं स्वार्थपूर्ण एव व्यवहारः क्रियते ? न सर्वजीवानां, न स्नेहिजनानां च, किन्तु यदि पूज्यजनानां मातापितॄणां चोपकारायाऽपि प्रयत्नो न विधीयते तर्हि वयं वीरप्रभुसेवका इति वक्तुं कथं शक्यते ?
परार्थं विनाऽऽत्मकल्याणमशक्यमस्ति ।
३०