________________
क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ बन्धो ! क्रोधादात्मिकदृष्ट्या त्वलाभो भवत्येव, किन्तु व्यवहारदृष्ट्याऽपि भवत्येवाऽलाभः । क्रोधात् प्रीतिनाशः, सम्बन्धभङ्गोऽप्रियता चेत्यलाभा भवन्त्येव । क्रोधात् पुराकृतानि सर्वाण्यपि धर्मकार्याणि विनाशतां गच्छन्ति । यावज्जीवमुत्कृष्टं तपः संयमपालनं च येन कृतं सोऽपि क्रोधवशाद् दुर्गतिं गतः इति बहवः प्रसङ्गाः शास्त्रेषु वर्णिताः सन्ति ।
___ भो ! सर्वे जीवाः प्रमादिनः सन्ति । प्रमादवशेन सर्वैरपि अपराधः क्रियते एव किन्तु कृतस्याऽपराधस्य शुद्धि न क्रोधाद् भवत्यपि तु प्रेम्णैव भवति । तथाऽपि प्रतिपदमस्माभिः क्रोध एव विधीयते, तन्नोचितमस्ति । आत्मकल्याणपथे विकासं साधयितुमनसा जीवेनाऽवश्यंतया कोपनता मोक्तव्या । अभ्यसनीयो गुणानुरागः -
शत्रूणां मित्राणां वाचं स्नेहिजनानां विरोधिजनानां वा, येषां केषाञ्चिदपि गुणलवमपि दृष्ट्वा धर्मपरिणतात्मनां चित्ते प्रीतिरानन्दश्च भवेदेव । यदि गुणं दृष्ट्वाऽपि प्रीतिर्न स्यात्तर्हि त्वया धर्माराधना क्रियते किन्तु त्वया धर्मो न ज्ञातः, चित्ते न धर्मः परिणतश्च, इति निश्चितं ज्ञेयम् । धर्मस्य व्याजेन केवलं दम्भामाचरसि त्वम् ।
. वयं सर्वेऽपि केषाञ्चिदपि शुभं हितं च कर्तुं द्रष्टुं श्रोतुं च न शक्नुमः । सदैव सर्वेषामप्यशुभमेव पश्यामो वदामश्च । न दुर्जनानां किन्तु सज्जनानामपि गुणवृन्दं निरीक्ष्याऽपि येन केन प्रकारेण दोषमेव मार्गयामः, अन्यथा दोषारोपणं कुर्मः । एतादृशा दोषदर्शिनो वयं कथं गुणानुरागिणो भवेम ?
बन्धो ! वयं न गुणानुरागिणः किन्तु व्यक्त्यनुरागिणः स्मः । परकीयजनानां विरोधिजनानां च श्रेष्ठगुणान् संवीक्ष्याऽपि निन्दामहे, तथा स्वजनानां स्नेहिजनानां च महादोषमपि निरीक्ष्य सद्गुणरूपेण प्रशंसामहे वयम् । उक्तं च - राइसरिसवमित्ताइं परिच्छद्दाइं पाससि ।
- अप्पणो बिल्लमित्ताई, अवि छिद्दाई न पाससि ॥ व्यक्त्यनुरागी सर्वदा परदोषदर्शी भवति । तस्य स्मृतिपथे प्रियजनं विना सर्वेषां दोष एवाऽऽयाति । परदोषदर्शनं तु क्षुद्रतोच्यते । क्षुद्रता भवाभिनन्दिजीवस्य लक्षणमस्ति । भवाभिनन्दिजीवस्य संसारे गाढासक्तिः विद्यते, तत स मिथ्यात्वी कथ्यते । एवं व्यक्त्यनुरागाद् धर्मोपासनां गुरुशुश्रूषां च विधायाऽपि मिथ्यात्वगुणस्थानकं स जीवः प्राप्नोति । अतस्त्वया गुणानुरागोऽभ्यसनीयोऽस्ति ।
यावत् कस्यचिदपि गुणं दृष्ट्वा चित्ते प्रसन्नता न जायेत, तथाऽऽत्मनो दुर्गुणं ज्ञात्वा ग्लानिर्न भवेत् तावदात्मिकविकासोऽशक्योऽस्ति । आत्मिकविकासस्य मार्गोऽस्ति गुणविकासः, गुणविकासो गुणानुरागस्याऽभ्यासेनैव भवति ।
न भाषणीयः परावर्णवादः