SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३. व्याघ्रभयादपि राजभयं बलवत्तरम् एकदा चीनदेशीयस्तत्त्ववेत्ता कन्फ्यूशियसः स्वशिष्यैः सह ग्रामाद् ग्रामं प्रवसन् आसीत् । तदा कस्यचिद् ग्रामस्य सीम्नि एका स्त्री सकरुणं विलपन्ती रुदती च तेन दृष्टा । अत: सञ्जातदयेन कन्फ्यूशियसेनैको निजशिष्यस्तद्रोदनकारणं ज्ञातुं प्रेषितः । शिष्येण पृष्टा सा कथितवती – 'अत्र प्रदेशे व्याघ्रा बहवः सन्ति । प्रथमं टेकेन व्याघ्रण मे श्वशुरो मारयित्वा भक्षितः । कतिचिद्दिनानन्तरमन्येन व्याघ्रण मे पतिरपि मारितः । ह्यश्च मे पुत्रमपि व्याघ्रो भक्षितवान् । अतो रोदिमि' । एतच्छ्रवणेन शिष्यस्याऽपि नेत्रे दुःखेन बाष्पक्लिन्ने जाते । ततस्तेनाऽपि गत्वा स्वगुरवे कथितमेतत् । सोऽपि सञ्जातदयस्तत्पाबें समागत्य तस्यै पृष्ट्वान् – 'भगिनि ! व्याघ्राणामेतादृशे त्रासे सत्यपि भवती कथमत्र प्रदेशे वसति? अस्य त्यागं किमर्थं न करोति ?' स्त्रियोक्तं - 'तत् तु नैव शक्यम्'। 'किमिति ?' 'अत्र प्रदेशे यद्यपि व्याघ्रत्रासोऽस्ति तथाऽप्यत्रैव वासः श्रेयसे । यतोऽत्रत्या राजपुरुषा अधिकारिणश्चाऽत्यन्तं सुयोग्या न्यायिनश्च सन्ति । जनानां कल्याणमेव तेषां कृते प्राथम्यं भजति । अतो वयमत्राऽत्यन्तं सुखिनः स्मः । अनेनैव कारणेन व्याघ्रभये सत्यपि वयमत्रैव वसामः' । एतन्निशम्य कन्फ्यूशियसः स्वशिष्यानुक्तवान् – 'दृष्टं किल भवद्भिः ? व्याघ्रभयादपि राजभयं बलवत्तरमिति' ! ४. भगवतः कार्यम् कश्चनो जनः पर्यटनार्थं निर्गतः सन् कुत्रचिन्नूतनदेवालयनिर्माणं जायमानं दृष्ट्वा तद्विलोकनार्थं स्थितः । तेन दृष्टं यद् द्वौ शिल्पिनौ तत्र शिल्पकार्ये रताः सन्ति । स एकस्य पार्वे यावद् गतस्तावत्तेन निरीक्षितं यत् स शिल्पी अतीव श्रान्तः खिन्नश्च दृश्यते स्म, तस्य मुखमपि विच्छायमासीत् । अतः स तं पृष्टवान् – 'भोः ! किमर्थं भवान् श्रान्तोऽस्ति? वदनमपि भवतो विच्छायमस्ति !' तेनोक्तं रूक्षतया - 'भोः ! पाषाणखण्डान् विदारयन् किमहं न दृश्ये वा ? प्रत्यहमेतादृशं कार्यं कुर्वन्नहमतीव श्रान्तोऽस्मि । तेनैव च मुखमपि म्लानम्' । ततः स जनोऽन्यस्य शिल्पिनः कार्यं द्रष्टुं यावद् गतस्तावत् तेन दृष्टं यदयमतीव प्रफुल्लितो दृश्यते । वदनमपि तस्य सुप्रसन्नं सस्मितं चाऽस्ति । अतो विस्मयापन्नः स तमपि पृष्टवान् – “भोः ! किमर्थं भवान् अतीव प्रसन्नोऽस्ति ? वदनमपि भवतः प्रसन्नं मधुरस्मितपूर्णं च दृश्यते !' । तेनोक्तं सानन्दं - 'भोः ! भगवतः कार्यं कुर्वन् कोऽपि जनः प्रसन्न एव स्थातुमर्हति । एते पाषाणा हि साक्षाद् देवकल्पाः । अतः प्रत्यहं भगवतः कार्यं कुर्वन्नहमपि प्रसन्न एवाऽस्मि' ।
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy