SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २. चौर एव रक्षकः एकदैकेन साधकेन मनश्चाञ्चल्यात् व्यथितेन सता मनसे एवाऽऽक्षेपपूर्णस्वरेण कथितं - 'भो मनः ! त्वमतीव चञ्चलमसि । त्वत्कारणान्मे कीदृशी बाधा जायते सर्वत्र कार्येषु ! मम सर्वाण्यपि कार्याणि तव चाञ्चल्यादेवाऽसिद्धानि वर्तन्ते । अतस्त्वं चाञ्चल्यं त्यक्त्वा शान्तं भव कृपया, येन मया सिद्धिर्लभ्येत' । मनसोक्तं – 'भोः ! तव कार्याणामसिद्धेर्दोषं मयि नाऽऽरोपय । अत्र तु तवैव दोषोऽस्ति । त्वं कदाऽपि मय्यवधानं न ददासि, अत एवाऽहं चञ्चलमस्मि । अतः प्रथमं त्वमेव मद्विषयेऽवहितो भव येन चाञ्चल्यं स्वयमेव विनश्येत । चाञ्चल्यत्यागार्थं क्रियमाणा अन्ये सर्वेऽपि प्रयत्नास्तु विफला एव स्युः । अत्र विषये कथामेकां कथयामि । शृणु तावत्' - 'एकस्मिन्नगरे चौर एको नित्यं चौर्यकरणेन जनान् बहूपद्रवति स्म । रक्षका तं निग्रहीतुं बहु प्रयतन्ते स्म किन्तु स कथमपि नैव गृह्यते स्म । अतश्चिन्तिता जना राजानमुपेत्य तन्निग्रहणार्थं व्यज्ञपयन् । राज्ञा द्रुतमेव तन्निग्रहो भवितेति कथयित्वाऽऽश्वासितास्ते । ततो "दृढां रक्षणव्यवस्थां कल्पयित्वा सत्वरमेव स चौरो निग्रहीतव्यः" - इत्यादिष्टं मन्त्रिणे। किन्तु बहुभिरपि प्रयत्नैः स नैव हस्तगतोऽभवत् । अतो राज्ञाऽन्य उपायश्चिन्तितः । तेन स्वयमेव सर्वेक्षणं कृत्वा यस्याऽऽचरणं शङ्कास्पदमासीत् तादृश एको जन आहूतः । वस्तुतः स एव चौर आसीत् । सोऽपि स्वस्मिन् शङ्का न स्यादित्येतदर्थमागतस्तत्र । राज्ञा च स सदयमुक्तः - 'भोः ! तव योग्यतां दृष्ट्वाऽहमतीव प्रसन्नोऽस्मि । अतो जनसेवार्थं ते आरक्षकपदं ददामि । इतः परं त्वया नगररक्षणं कर्तव्य'मिति । सोऽपि सर्वजनसमक्षं कथितमिदं श्रुत्वा प्रतिषेधुमशक्तो राजादेशं स्वीकृतवान् आरक्षकश्चाऽभवत् । यत्प्रभृति स आरक्षकोऽभवत् तत्प्रभृति नगर्यां चौरोपद्रवः शान्तो जातः । चौरो यदि स्वयमेव रक्षक: स्यात् तदा कथं चौर्यं भवेत् ! ।। कथामेनां कथयित्वा मनसोक्तं - 'भोः ! तस्य चौरस्येव त्वमपि स्वस्यैव रक्षको भव । जागरूकतया रक्षणं कुरु । ततोऽहं सर्वथाऽचञ्चलं शान्तमेव च दृष्टिगोचरं भवेयम्' । साधकायैतत् मनसोक्तं सूचनं रुचितम् । स स्वयमेव स्वरक्षकोऽभवत् । मनः शान्तं जातम् । चाञ्चल्यं च विलीनमभवत् । (द्वयोरपि हिन्दीमूलम् - सन्त अमिताभः) ५३
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy