________________
(२)
विश्वकवे रवीन्द्रनाथठाकुरस्य १५०तमजयन्तीमुपलक्ष्य
जनगणमनसो नेतुर्वाणी प्राचीजलधितटादरुणाभः कोऽयं रविरुदियाय ? दिगुवनिता विजहुर्मदतन्द्रां कस्याऽऽलोकलयाय ? ॥१ पुनरथाऽपि मुखरयति माधवनी दिशमेष रवः । विद्यापतिकृतिझंकृतिमनुगुञ्जन्त्येते तरवः ॥२ मृद्वीकामधुरसमधरं कलयन्ती मृदुरणिता । केनेयं पुनरपि जयदेवकवेर्वीणा क्वणिता ? ॥३ आप्याययसि धरित्रीमखिलां वाड्मकरन्दझरेण । कोमल-ललित-कान्त-पदगुम्फितकविकृतिपीयूषेण ॥४ रसमनादिमानन्दमुदात्तं वर्षन्ती रमणा । रसनामार्द्रयते खलु ते रचना भावप्रवणा ॥५ रतिधृतिशोत्साहस्मृतिचापल्यहर्षजडताः । मानवीयभावास्तस्याः काव्ये भवता कलिताः ॥६ निश्छलहृदया बालाऽसौ तरुणी स्नेहाकुलिता । वात्सल्यामना मताऽपत्यस्नेही च पिता ॥७ किमप्यपूर्वं भावजगत् सुकवे ! भवता सृष्टम् । जीवति वदति चलति पश्यति यत् सहृदयहृदि जुष्टम् ॥८ भवता जलधरसौदामिन्योः प्रेमालापकथाः । मूर्छितमानवतायाः क्रन्दनदिग्धा मनोव्यथाः ॥९ यौवनमधुवनवल्लरीषु हृत्कोकिलकलविरुतम् । नयनसरित्तीरे विरहिण्याः क्रौञ्च्याः करुणरुतम् ॥१० सर्वमनादि मानवीयं गाथागीतं पठितम् । क्रान्तदर्शिभिनयनरवलोकितमधरैर्गदितम् ॥११ वर्षशतं तव निर्जरकविकीर्तेरेको दिवसः । भास्करलक्षं जनयेदणुरेकोऽप्येतन्महसः ॥१२ यावद् हिमधवले कैलासे नृत्यति सुरापगा। यावत्कालिदासवाणी सुधियां हृदये सुभगा ॥१३