________________
मार्गदर्शनम् अमूल्यम् । पूर्वमपि वयं महत्तराम् आपत्तिं तव मार्गदर्शनेनैव पारं गताः । विचक्षणबुद्धिः खलु त्वम् । तस्माद् उचितं पथदर्शनं ।
कुरु । तस्य प्रबन्धोऽपि त्वया कर्तव्यः । सचिवः राजन्, यस्मिन् काले भिक्षा अपि दुष्प्राप्या भवेत् सः कालः दुर्भिक्षः
उच्यते । अस्माकं समीपे सिन्धप्रदेशः वर्तते, तस्मिन्देशे वहति सिन्धुनदी । तस्याः जलेन अयं देशः धनधान्येन समृद्धः । सार्थवाहदलं
सिन्धदेशं प्रति प्रेषयामः । ज्येष्ठभ्राता किमर्थम् ? सचिवः अस्माकं देशस्य वस्तूनां विक्रयार्थं धान्यस्य च ग्रहणार्थं सार्थवाहदलं ।
सिन्धदेशं प्रति प्रेषयामः ।। ज्येष्ठभ्राता साधु ! साधु ! सम्यग्दर्शितम् । दुष्कालस्य प्रभावः दुस्सहनीयः भवेत्,
तत्पूर्वं धान्यव्यवस्थापनं कुरु । व्यापारकुशलाधिकारिजनानां नियुक्ति
कुरु, सार्थवाहैः सह तानपि प्रेषय । सचिवः यथा आदिशति महाराजः । पुः अहमपि सार्थवाहेभ्यः सिन्धदेशं गन्तुम् इच्छामि । ज्येष्ठभ्राता कुमार ! विना प्रयोजनेन किमर्थं देशाटनम् ? पुनः देशाटनेन ज्ञानवृद्धिर्भवति । स्वपराक्रमपरीक्षार्थम्, आत्मनिरीक्षणार्थ,
धनप्राप्तिहेतोः, मैत्रीहेतोः परदेशगमनं नीतिनिपुणा अनुमोदयन्ति । पार सचिवः साधु, साधु, पुर्नुकुमारेण नीतिसारः कथितः । राजन्, प्रेषय सार्थवाहेन
सह कुमारम् । अलं चिन्तया, अहमपि गच्छामि राजकुमारेण सह । MK
तस्मादाज्ञापयतु भवान् । N/. आरिजामः सचिव, तव वचने विश्वासं कृत्वा निक्षेपरूपेण मम पुत्रं त्वया सह ...
प्रेषयामि । मम न्यासं मत्वा तस्य रक्षणं तव कर्तव्यम् । सचिवः देव, मा चिन्तां कुरु । महाशौर्यवान् पुर्नुकुमारः मम रक्षणं कर्तुमपि
समर्थः ।
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org