________________
नैनै नै नै नै नै
रजकी वार्धक्येऽपि प्रबलवेगे मम प्रेमानुग्रहकारणेन तरति । पटलिकां गृहीत्वा आगच्छति । सत्या मे अवधारणा । किम् अस्ति तस्यां पटलिकायाम् ? रजकः पश्य, पश्य, उत्तमकाष्ठेन निर्मितां कलाकौशल्यपूर्वकम् अलंकृताम् इमां पटलिकाम् । मन्ये द्रव्येन पूर्णा अस्ति पटलिका ।
रजकी अहमेव पश्यामि । अहो धन्या खल्वहम् ! ईश्वरेण दत्ता मह्यम् अतीव रूपसम्पन्ना पुत्री |
रजकः पुत्री ! किं जल्पसि ? जानासि का सा ? नदीजले वहन्त्यां पटलिकायां प्राप्ता नवजाता बालिका आवयोः पुत्री ? विचारय, किमर्थं प्रलपसि ? सत्वरं गृहं गमनं हि उचितम् । तस्मात् त्वरां कुरु ।
M
M
रजकी मम पुत्रीं पश्य । देवकृपया प्राप्ता सा । ( बालिकायाः रुदनं श्रूयते) मम पुत्रि ! मा आक्रन्द। अहमेव तव माता, अलम् आक्रन्दनेन । अहो किं किं करोमि ? केनाऽप्युपायेन मम पुत्री शान्ता न भवति ।
रजकः यदि कोऽपि जनः आगमिष्यति राज्ञे निवेदनं वा करिष्यति ततः किं करिष्यावहे ? तस्मात् गृहं प्रति गमनं हि श्रेयस्करं भविष्यति । त्वरां कुरु ।
रजकी हुं सत्यं वदति भवान् । गृहं गत्वा दुहित्रे दुग्धपानप्रबन्धं करिष्ये । तस्मात् भवानपि त्वरां करोतु । आहूय उत्तमं ब्राह्मणं तस्मै किंचिद् दक्षिणामपि यच्छामः ।
रजकः बाढम्, बाढम् । अहं सर्वं प्रबन्धं करिष्ये । तस्यै क्रीडनार्थं क्रीडनकान्यपि आनयामि ।
दृश्यम् (२)
(दृश्यपरिवर्तनसूचनार्थं संगीतम्)
ज्येष्ठभ्राता सचिव, प्राप्तः दुर्भिक्षः । मम पिता महाराजः आरिजामः व्याधिग्रस्तः तेन आदिष्टोऽहं भवता सह मन्त्रयामि । सर्वे जनाः दुःखिताः । अस्माकं कोशागारे अक्षयं धनं, रत्नानि, मौक्तिकानि, सुवर्णालङ्काराः सन्ति तथापि धान्याभावेन वयं सर्वे अतीव दुःखिताः । दर्शय उपायम् । केनोपायेन दुष्कालसमयः सुखेन यापयितुं शक्येत तत् दर्शय । तव
Jain Education International
८३
For Private & Personal Use Only
नै
www.jainelibrary.org