________________
|
उपमानप्रमाणम् मूललेखको हिन्द्याम् पं.श्रीदलसुखमालवणिया
अनु. मुनिकल्याणकीर्तिविजयः चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाऽक्षपादः । अर्थापत्त्या प्रभाकृद् वदति सनिखिलं मन्यते भाट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥
पौर्वात्ये जगति विशेषतो भारतवर्षे दर्शनानां षड् विभागाः प्रसिद्धाः सन्ति, यथा
१. न्यायदर्शनम् (आक्षपाददर्शनम्) २. वैशेषिकदर्शनम् (काणाददर्शनम्)
३. साङ्ख्यदर्शनम् (कापिलदर्शनम्, अत्र पातञ्जलदर्शनमपि समाविशति समानतन्त्रत्वात्)
४. मीमांसादर्शनम् (जैमिनीयदर्शनम् । अस्य द्वौ विभागौ - पूर्वमीमांसाउत्तरमीमांसा [वेदान्तदर्शनं] च)
५. बौद्धदर्शनम् (सौगतदर्शनम्) ६. जैनदर्शनम् (आर्हतदर्शनम्)
एतानि सर्वाण्यपि दर्शनानि ह्यात्मवादिदर्शनानि - यथाकथञ्चिदप्यात्मपरमात्म-पुण्य-पाप-बन्ध-मोक्ष-परलोकादितत्त्वानि मन्यन्ते । एतान्यतिरिच्य सप्तमं नास्तिकं दर्शन(चार्वाकदर्शन)मप्यस्ति यत् सर्वथाऽऽत्मादितत्त्वानि न मन्यते केवलं भूतचतुष्टयात्मकमिदं जगदस्तीत्यादिकमेव मन्यते ।
प्रारम्भे यः श्लोकः उद्धृतस्तस्मिन्, ये ये दर्शनावलम्बिनो यति यानि च प्रमाणानि मन्यन्ते तति तानि च नामग्राहमुक्तानि ।
तत्र, चार्वाकः केवलं प्रत्यक्षप्रमाणमेव मन्यते । सुगतमतीयाः । काणादाश्च प्रत्यक्षमनुमानं चेति प्रमाणद्वयं मन्यन्ते । पारमर्षा नाम साङ्ख्याः पूर्वोक्तद्वयेन सह शाब्दं (आगम) प्रमाणमपि मन्यन्तेऽर्थात् प्रमाणत्रयं मन्यन्ते ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org