SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आस्वादः सरला: स्याद्वादसिद्धान्ता:-१ मुनित्रैलोक्यमण्डनविजयः स्याद्वादं ज्ञातुमिच्छुका बहवो भवन्ति । तदर्थं यद्यपि स्याद्वादस्वरूपस्य सामान्यतः परिचायकं साहित्यं लभ्यते एव, तथापि वस्तुतः तामिच्छां पूरयितुं तैः खण्डनमण्डनादिविनिर्मुक्तं सरलविवेचनयुतं स्याद्वादसिद्धान्तनिरूपणमपेक्ष्यते । तच्चाऽलभमानास्ते खिद्यन्ते । स्यात्तेषामपेक्षापूर्तिः, स्याच्च कठिनचर्चामन्तरेणाऽपि स्याद्वादतत्त्वावगम इति धियाऽऽरब्धेयं श्रेणी । तत्र प्रथममुत्पादविनाशस्वरूपमधिकृतम् । विषयोऽयं शास्त्रवार्तासमुच्चयग्रन्थोपरि महामहोपाध्यायश्रीयशोविजयविनिर्मित-स्याद्वादकल्पलताटीकातो (स्त. १ का. ४७-४९) गृहीतः । अत्र यत् तत्त्वं तद् महामहोपाध्यायप्रज्ञाविलसितमेव । केवलं प्रकारान्तरेण प्रस्तुतीकरणे एव मम प्रयत्नः । ___ (१) शिष्यः 'मत्थएण वंदामि भंते ! भवतामानुकूल्यमस्ति चेत् किञ्चित् प्रष्टुमिच्छामि । आचार्यः कामं पृच्छतु भवान् । समीचीनः प्रश्नस्तु ज्ञानप्राप्तेर्मूलमेव । शि० प्रभो ! मया पठितं यत् "तिलेषु प्राग् विद्यमानमेव तैलं तिलसङ्घातादुत्पद्यते, रेणुषु प्राग् नास्ति तैलं ततो रेणुसङ्घाताद् नोत्पद्यते । एवं त्र्यणुके उपलभ्यमानं स्थूलत्वं तत्कारणेषु परमाणुषु विद्यमानमेव भवति ।" किमेतत् सत्यम् ? कोऽत्र संशयः ? येषु यद् भवति तदेव तेषां समूहादुत्पद्यते इत्यभिप्रायकः 'तत्सङ्घातजन्यत्वस्य तत्राऽस्तित्वव्याप्यत्व'मिति नियमोऽभ्युपेय एव । किन्तु यत् पूर्वं येषु पृथगवस्थायां नाऽऽसीत् तत् तेषां सङ्घातादुत्पन्नमिति कथं न स्वीक्रियते ? आ० एवं चाऽसत्कार्यवादोऽभ्युपगतः स्यात् । तथा च यथाऽसतो घटस्यो त्पत्तिर्भवति तथाऽसतः शशशृङ्गस्योत्पादः कथं न स्यात् ? १. मस्तकेन वन्दे भगवन्तः । (1) २. 'पूर्वं (= कारणकाले) असतः कार्यस्य उत्पत्तिर्भवति' इति मतमसत्कार्यवादः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy