________________ आत्मप्रेम* एकदाऽप्सरस: क्रीडार्थं भुव्येकस्य कासारस्य तीरेऽवतीर्णाः / तास्तं कासारं सम्यक् परिचिन्वन्ति स्म, यतोऽयं स एव कासार आसीद् यस्य निर्मलजले स्वमुखदर्शनेनैव सुरुपो नार्सिससः कृत्स्नं दिनं यापयति स्म, यस्मिश्च कदाचिन्निमग्न: स प्राणान् त्यक्तवानासीत् / अप्सरोभिरिदं लक्षितं यद् मित्रवियोगेन भृशं दुःखित: कासार इदानीमप्यविरतं रोदिति, अतस्ता: सहानुभूत्या तं सान्त्वयितुमुद्यता: “भो: कासार / अवगच्छामो वयं तव दुःखम् / सत्यमेतद् यत् तादृशस्याऽतीवमनोरमस्य भुवनमोहकस्य मित्रस्य मृत्युः शोकं जनयेदेव किन्तु...." “क्षणं स्थीयताम्” अवदत् कासार: “किं नार्सिसस: तावान् सुन्दर आसीत् ?" “अथ किम् ? स्वकीयसौन्दर्यस्य दर्शनार्थं स तव तीरे नित्यं घण्टा यावदुपविशति स्म किल ?" “क्षम्यताम् / तस्य सौन्दर्ये वस्तुतो ममाऽवधानमेव नाऽऽसीत् / " “अरे ! तर्हि भवता तं स्मृत्वा किमर्थं रोदनीयम् ? “कथं न रुद्याम ? तदात्वे तस्य नेत्रकनीनिकयोः प्रतिबिम्बितस्य मम सौन्दर्यस्य दर्शनं मामतीव रोचते स्म / तद् दर्शं दर्शमहममन्दमानन्दमनुभवामि स्म / इदानीं तु....” Jain Education International For Private & Personal Use Only www.jainelibrary.org