SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ यस्य दृष्टिमात्रेणैव जना म्रियन्ते तेन चण्डकौशिकनाम्ना दृष्टिविषसर्पण त्रीन् वारान् स महावीरो दष्टः । एवमनेके उपसर्गाः सोढाः, तथाऽपि स प्रभुर्विचलितो न बभव, न च तेन मनसाऽपि दानं कृतम । एषा शक्तिः कत आगता? तस्या यो देह आसीत् स एवौदारिकदेहोऽस्माकमप्यस्ति । भो ! यावती देहस्याऽऽसक्तिः प्रबला मोहश्च बलिष्ठस्तावती देहस्य पीडाऽधिका, तथा देहस्याऽनन्तशक्तेर्यथार्थ उपयोगोऽशक्योऽस्ति । योऽस्य देहस्याऽऽनन्तशक्त्या उपयोगः कथं करणीय इति जानाति तस्य कृते न किमप्यशक्यमस्ति । हिमालयगिरेगुहायां निवसन्तो योगिनो हठयोगेन बहुदिवसपर्यन्तं न किमप्यदन्ति, तथा दीर्घकालं श्वासोच्छ्वासमपि निरुन्धन्ति, इत्यस्माभिः श्रुतमस्ति । यद्येते योगिनोऽप्येतत्कर्तुं समर्थास्तर्हि त्रिलोकस्याऽधिपतेः का वार्ता ? बन्धो ! एतद्देहमनन्तशक्तेरधिष्ठानमस्ति । अस्मिन् देहे लौकिका लोकोत्तरार चेति द्विधा शक्तिर्विद्यते । अद्य जगति चुम्बकीय-वर्ण-एक्युपङ्कचर-एक्युप्रेसरस्फटिक-सुजोक-रेकी-इत्यादीनां बह्वीनां चिकित्सापद्धतीनां विकासो दृश्यते । एतच्छक्तिप्रभावात् कर्क(Cancer)रोगादीन् सर्वानपि रोगान् नाशयितुं शक्यमस्ति । एवं लौकिकशक्तिप्रभावेण भौतिकलाभाः प्राप्यन्ते । तथा लोकोत्तरशक्तिश्चित्ते प्रवर्तमानान् दुर्भावानशुभाशयान् चाऽपाकृत्य शुभभावानात्मिकगुणान् च प्रकटीकरोति । महावीरप्रभुणैतस्या लोकोत्तरशक्त्या माहात्म्येनैवैतादृशमचिन्त्यं सामर्थ्यमवाप्तम् । महावीरभगवतोक्तम्-देहो नौर्जीवश्च नाविकोऽस्ति । जीवेनैतदेहरूपस्य नावः साहाय्येन संसाररूपो भवसमुद्रस्तरणीयोऽस्ति । उपनिषदि व्याकृतं चदेहस्तु रथो जीवश्च रथिकः, देहस्तुरङ्गमो जीवश्च स्वाम्यस्ति । एवं देहस्तु भवसमुद्रतरणाय सेतुरिवाऽस्ति । आत्मना देहस्याऽऽलम्बनेन परमात्मा परमगुणाश्च 2 प्रापणीयाः । देहः साधनं साध्यं त्वात्मगुणाः सिद्धिश्चाऽस्ति, किन्त्वद्याऽस्माभिर्देह एव साध्यतया परिगणितः, तत एव परमात्मतोऽप्यधिका पूजाऽस्य देहस्य क्रियते । निरन्तरं देहस्यैवाऽऽसक्तौ वयं रममाणा: स्मः । अद्यावधि ये ये सङ्ग्रामा जातास्तेषां मूले देहस्याऽऽसक्तिरेवाऽस्ति । लङ्केशः सीताया देहे आसक्तो जातस्तत एव भयङ्करं युद्धं जातम् । वृत्तपत्रिकायां प्रतिदिनं पठ्यतेऽस्माभिर्यदस्मिन् ग्रामे वधो जातो बलात्कारश्च कृत इत्यादि । अत्राऽपि देहासक्तिरेव कारणमस्ति । प्रारम्भे देहासक्त्या भवदहितमल्पं दृश्यते किन्तु परिणामस्त्वतीव भयङ्करो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy