________________
-
श्रीअजितनाथजिनगीतिः ॥
अद्वितीयं द्वितीयं जिनं संस्तुवे कर्ममल्लैरजितमष्टसङ्ख्यैः । अजितनाथाभिधं विजितसकलद्विधं त्रिविधमभिवन्दितं त्रिदशमुख्यैः ॥१॥
कलभगतिगामुकं मुक्तिरतिकामुकं मत्तगजलाञ्छितं पादपद्म। स्वर्णवर्णच्छविं पुण्यपङ्कजरविं
नाशयन्तं च पापापदं मे ॥२।। रागभङ्गं त्वया कुर्वतोपार्जितो विश्वरागो महच्चित्रमेतत्। द्वेषविजयं तथा कुर्वता तदुपरि द्विष्टमेवेत्यहो! चित्रमपि तत् ।।३।।
धर्मसाम्राज्यवरनायकं दायकं धर्मतत्त्वस्य परिचायकं च। भीमभवसिन्धुतस्त्राणशीलं सदा भावप्राणेश्वरं मामकं च ।।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org