________________
-
-
मात्रा
नमो नम: श्रीगुरुनेमिसूरये ।।
ऐं नमः॥
॥ चतुर्विंशतिजिनगीतयः ॥
उद्गाता - विजयशीलचन्द्रसूरिः
..........१
॥श्रीऋषभजिनगीतिः ॥ वन्दे नाभितनूजन्मानं
पृथ्वीशं प्रथमं पृथुकीर्ति प्रथितविमलमहिमानम्...... सृष्ट्यादाविह भरते योऽखिल-सद्वयवहारनिदानं,
दातारं प्रथमं त्रातारं प्रथमं ज्ञाननिधानम्.. स्रष्टारं प्रथमं द्रष्टारं प्रथमं गुरुमविगानं,
प्रथमं वैज्ञानिकमथ विश्वे विश्वेश्वरतास्थानम्.........२ प्रथमं विश्वपतिं श्रीवृषभं धर्मे वृषभसमानं,
वृषभाङ्कितपदकमलं सुरवर-वधूरचितगुणगानम्.....३ ज्योतिर्मयमानन्दघनं हत-सर्वकठिनकर्माणं,
शुचिशीलं गतभवलीलं तं विहितभुवनकल्याणम्...४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org