________________
अपरं च-कदाचिद् भवेदेवं यन्न स्यात् किञ्चिदपि पार्श्वे , तथाऽपि पुण्यजन्यस्थितेबभालाभाभ्यां हर्षशोकावकुर्वाण: सन् प्रसन्नतयैव यस्तिष्ठति, तस्यसा प्रसन्नताऽपि स्वाधीनैव । अल्पमप्यन्यस्य सत्कार्यं दृष्ट्वा निर्दम्भ: प्रमोदभावो याद्भवेत् तदा सप्रमोदोऽपिस्वाधीन: कथ्यते।
समासत: सर्वे एव गुणा: स्वाधीनाः । यत: सर्वे गुणा: सर्वाश्च सद्वृत्तयोऽन्त एव वर्तन्ते । केवलं समीक्ष्योद्घाटनमेवाऽऽवश्यक म् । गुणाश्च यदोद्घटिता भवन्ति तदाऽऽत्मनि यदनुभूतिविषयीभवति तदेव सुखम्।
उपर्युक्तानां तदन्येषां च सर्वेषां गुणानां प्रकटीकरणमेव तात्त्विकं सुखम्। अत एव कथितं'सर्वमात्मवशं सुखम्।' सङ्केपेण चैतदेव सुखस्य दु:खस्य च स्वरूपम् । इति शम् ।
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org