________________
तु एषणापूर्त्या भविता मनस एव तोषो न त्वात्मनः । अथ यन्नाऽऽत्मतत्त्वं साक्षात् स्पृशति तत्कथं सुखत्वेनाऽभिधीयेत? वस्तुजन्यं मनुष्यजन्यं वातावरणजन्यं वा सुखं न पारमार्थिकं, त्रिभिर्व्यवहितत्वात् । त्रिभिरेभिस्तु मन एव सुखित्वं भजते। अत एव यद्येतत्त्रयं नश्यति परिवर्तते वा तर्हि व्यथयति । अपरं च, यदि तेभ्यो मनो विरक्तिभावमाश्रयेत् तदाऽपि दुःखस्यैवोद्भवः । अत एव - यन्न साक्षादात्मप्रत्यक्षं तन्न सुखमिति सत्यम्। __ अथ यत्र नाऽऽत्मप्रत्यक्षत्वं तत्राऽस्ति पारवश्यम् । तच्च दु:खरूपमेव। अत्राऽस्ति च पुद्गलपारवश्यम् । 'पुद्गलैः पुद्गलास्तृप्तिं यान्त्यात्मा पुनरात्मना' इति वचनात् । अत्र त्रिष्वपि पुद्गल एव प्राधान्येन वर्तते। ततश्च पुद्गलस्वरूपं मन एव तृप्तिं प्राप्नोति, न त्वात्मा, अपौद्गलिकत्वात् । पुनश्च यदस्थिरमपरं चाऽऽलम्बते तत्कथं शाश्वतमात्मतत्त्वं प्रीणयितुं शक्तम् ? सुखत्वेनाऽपि च कथं तद् व्याख्येयम् ? ___सर्वद्रव्यसाथ संयोज्याऽयस: पिण्डात् सुवर्णप्राप्त्यर्थं यतमानो जन: कस्या अपि क्षतेर्योगात् सुवर्णमलभमान: सन् पीतवर्णं लब्ध्वैव तत्र कनकप्राप्तेस्तोषं लभेत तदा तस्मै किं वक्तव्यं स्यात् ? यत्तत्र कथयितव्यं तदेवाऽस्माकमप्यनुसरति । वयमपि विवेकं न जानीम: । विफलं पुरुषार्थमेवकेवलं कुर्मः। किन्तु, यदा विवेको जागृयात् तद्देव दिक्परिवर्तनं भविष्यति। तत्पश्चादेव च सत्यसुवर्णवत् वास्तविकमात्मप्रत्यक्षं सुखं प्राप्तुं शक्यम् ।
सुखं त्वात्मतत्त्वस्यशाश्वतपर्याय: स्थिरस्वभावश्चाऽस्ति। तत्तु न मार्गणविषय: किन्तूद्घाटनविषयो वर्तते। सुखं नाऽऽविष्कारं प्राप्नोति किन्त्वाविर्भावमेव । सुखस्य सम्बन्धोऽस्तित्वेन सहाऽस्ति न तु जन्यत्वेन । यदस्तित्वं तत्सर्वदा स्वाधीनमेव। ___ अथ सांसारिकं सर्वमवस्थान्तरं यदि पराधीनं तर्हि किं स्वाधीनम् ? किं चाऽऽत्मवशम् ? नि:स्वार्थभावेनैव यदि सर्वत्र प्रेम वितीर्यते भवता तर्हि तत्प्रेम स्वाधीनम् । नोद्भवति तत्प्रेम कस्या अपि बाह्यपरिस्थित्या किन्तु स्वान्तत एवोद्गच्छति । 'न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते' । इति वचनात् । अत एव स्वाधीनम् ।
सर्वेषु स्वाभिलषितपदार्थेषु स्वायत्तीभावेन वर्तमानेष्वपितैः सह साधनत्वेनैव यो व्यवहरति, तेषु च स्वकीयत्वाग्रहरहित: सन्ननासक्तभावेन यो वर्तते, सा तस्याऽनासक्ति: स्वाधीनाऽस्ति।
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org