SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आस्गाः ॥ चिन्तनधारा -मुनिरत्नकीर्तिविजयः सर्वं परवशं दु:खं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लक्षणं सुख-दु:खयोः ।। ___(योगदृष्टिसमुच्चयः श्लो.१७२) व्याख्या : ‘सर्वं यत् परवशं-पराधीनं वर्तते तद् दु:खं,यच्चाऽऽत्मवशं-स्वाधीनं तत्सर्वं सुखरूपम्' इत्येतत् समासेन-सक्षेपेण सुख-दु:खयो:-सुखस्य च दु:खस्य च लक्षणंस्वरूपमुक्तं-कथितम्। __विवरणम् : अनादिकालादारभ्य समग्रप्राणिसृष्टेर्विशेषेण च मनुष्यस्य सुखं त्वभीप्साविषयो वर्तते। अन्यस्मिन् प्राणिजाते मनुष्ये चैकमन्तरं वर्तते, यद् - इतप्राणिन: स्वकीयायां वर्तमानायां परिस्थितौ यत्सुखरूपं तस्य स्थैर्यार्थमेव प्रयतन्ते । यतो नास्त्येतस्माद् विशेषबोधोपलब्धिस्तेषाम् । मनुष्यस्तु प्राप्तसुखस्य वृद्धयर्थं सततं प्रयतते। तथाऽपि तस्य प्रत्येकं प्रवृत्तौ सुखविषयकातृप्त्यभिलाषावेव दृग्गोचरीभवतः। ___ 'सन्त्यनवरतं सुखप्राप्तावेव मनुष्यस्य प्रयत्ना' इति सत्यवदेतदपि तथ्यं यत् स नाऽद्याऽपि सुख्यभवत्। मनस्तु सुखाधारत्वेन तेन स्वीकृतमिति तत्र कारणम् । मनस्तु सततं परिवर्तनशीलम् । परावर्तत एव मन:स्थित्या: परिवर्तनेन मनुष्यस्य सुखव्याख्याऽपि । एतस्मात्कारणादेव एकत्र सुखं दृष्ट्वा तत्प्राप्त्यर्थं स परिश्रमं करोति, प्राप्नोत्यपि च । अथ-‘अद्यतोऽहं सुखी'ति मत्वा यावत् स तिष्ठति तावत् किञ्चिदेवं घटते येन सर्वं तन्मनसि नीरसमिवाऽऽभाति । अधुना तु न तत्प्राप्तिस्तस्य सुखाय भवति । पुनरपि सोऽपरत्रप्रयत्नमादरति । ' भूतश्चैतदखण्डप्रक्रमो मनुष्यस्य, यत्-यदर्थं मन आदिशति यच्चेच्छति तस्मिन् प्रयत्न: कार्यः। कीदृशीयं विडम्बना ! यत् मनुष्यः सुखं मृगयते, तदपि स्वस्वीकृतमार्गेणैव । स्वाङ्गीकृतव्याख्यायां यन्न समाविशति तन्न सुखमिति स मन्यते । मनसस्तरङ्गाननुसृत्यैव स सर्वत्र धावति । यत्र च तिष्ठति ततोऽप्यग्रमेव सुखं पश्यन् पुनस्तदर्थं धावति । पुन: पुनरेवमेव करोति। ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy